________________
RECORRECRACK
धर्मः प्ररूपयितव्य इति अभिनिष्क्रमणकाले शक्रेण समर्पितमेकं देवदूष्यं प्रतिगृह्णन्ति, उक्तं च-“निरुवमधिइसंघयणा चउनाणाऽतिसयसत्तसंपण्णा । अच्छिद्दपाणिपत्ता जिणा जियपरीसहा सन्चे ॥१॥ तम्हा जहुत्तदोसे पायंति न वत्थपत्तर|हियावि । तदसाहणंति तेसिं तो तग्गहणं न कुवंति ॥२॥ तहवि गहिएगवत्था सवत्थतित्थोवएसणथंति । अभि-* निक्खमंति सधे तम्मि चुएऽचेलया होंति ॥३॥" (वि. २५८१-३) ततः कथं तैः सह सर्वसाम्यं प्रतिपत्तुं शक्यम् , अन्यच्च-सर्वसाम्यप्रतिपत्तौ तीर्थकरैरिव न परोपदेशोऽपेक्षणीयः, नापि छद्मस्थैः सद्भिः परेभ्य उपदेष्टव्यं, न च शिष्यवर्गों दीक्षणीय इत्यापन्नस्तीर्थव्यवच्छेद इति नैष पक्षः, आह च-"न परोवएसवसया न य छउमत्था परोवएसपि । देति नय | सीसवगं दिक्खंति जिणा जहा सवे ॥१॥ तह सेसेहि वि सवं, कज्जं जइ तेहिं सबसाहम्मं । एवं च कतो तित्थं? न8 चेदचेलोत्ति को गाहो ? ॥२॥"(वि.२५८६-७) देशपक्षस्त्वस्माभिरभ्युपगत एव, वेषानुकारस्य लोचकरणमात्रेण चरितानुकारस्यैषणीयाहारपरिभोगानियतवासादिना (च) क्रियमाणत्वात् , यदप्युक्तम्-'वस्त्रं च ग्रन्थ' इत्यादि, तदपि न सुन्दरं, संयमोपकारितया वस्त्रे धर्मोपकरणत्वेन ग्रन्थत्वायोगात्, तथाहि-यद्धर्मोपकरणं न स ग्रन्थः, धर्मोपकरणं च वस्त्रमिति व्यापकविरुद्धव्याप्तोपलब्धिः, ग्रंथत्वं हि बन्धुहेतुत्वेन व्याप्तं, प्रश्नाति जीवं कर्ममलेनेति ग्रन्थ इति व्युत्पत्ते, *कर्मबन्धहेतुताप्रतिपक्षभूतेन च कर्मामलापगमहेतुत्वेन व्याप्तं धर्मोपकरणत्वं, तथाहि-धर्मः सम्यग्दर्शनज्ञानचारित्ररूपः,
स उपक्रियते-उपष्टभ्यते स्फीति नीयते इतियावद् अनेनेति धर्मोपकरणं, यच्च सम्यग्दर्शनादिकं धर्ममुपष्टभ्राति तत् परं-18 परया कर्ममलापगमहेतुः, सम्यग्दर्शनादिप्रभावतः सकलकर्मापगमलक्षणस्य मोक्षस्याभ्युपगमात्, वस्त्रमपि च शुभध्या-16
CAKACACAMACHAR
Jain Education liten
For Private & Personal use only
www.jainelibrary.org