________________
CAKACKANGANA
ऽऽहतसूचीकलापसनिमं बद्धस्पृष्टनिकाचितमिति, एवं श्रुत्वा गोष्ठामाहिला पाह-नम्वेवं मोक्षाभावः प्रसज्यते, तथाहि-ना जीवात्कर्म वियोगमहति, अन्योऽन्याविभागबद्धत्वात् स्वप्रदेशवत्, तस्मादेवमिष्यताम्
पुट्ठो जहा अबद्धो कंचुइणं कंचुओ समन्नेइ । एवं पुट्ठमबद्धं जीवं कम्मं समन्नेह ॥ १४३ ॥ (म्. भा.) __ यथा स्पृष्टः-स्पर्शमात्रेण संयुक्तोऽबद्धः-शीरनीरन्यायेन न लोलीभूतः कश्रुकिनं पुरुषं कश्चकः समन्वेति-समनुगच्छति, एवं स्पृष्टमबद्धं कर्म जीवं समन्वेति । प्रयोगश्च-जीवः कर्मणा स्पृष्टो, न बद्धः, वियुज्यमानत्वात् , कचकेनेव तद्वद्वत्, एवं गोहामाहिलेण भणिए विंझेण भणियं-अम्हं एवं चेव गुरुणा वक्खाणियं, गोट्ठामाहिलेण भणियं-न याणइ सो किं वक्खाणेइ?, ताहे सो संकिओ समाणो पुच्छिउं गतो, मा मए अन्नहा गहियं भवेजा, ताहे पुच्छिया आयरिया, ते भणंतिजहा मए भणियं तहा तुमएवि अधिगयं, ततो विझेण माहिलवुत्ततो कहितो, ततो गुरू भणंति-माहिलभणिती मिच्छा, कथं, यदुक्तं 'जीवात्कर्म न वियुज्यते' इत्यादि, अत्र प्रत्यक्षविरोधिनी प्रतिज्ञा, यस्मादायुःकर्मवियोगात्मकं मरणमध्यक्षसिद्धमेव, हेतुरप्यनैकान्तिकः, अन्योऽन्याविभागबद्धानामपि क्षीरोदकादीनामुपायतो विभागदर्शनात् , दृष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य युतत्वासिद्धेस्ताद्रूप्येणानादिरूप्य(रूप)त्वात् , भिन्नं च जीवात्कम्र्मेति, तथा यदुक्तं-'जीवः| कर्मणा स्पृष्टो न पुनर्बद्ध' इत्यादि, अत्रापि किं प्रतिप्रदेशं स्पृष्टोनभसेव त्वङ्मात्रेण कझुकेनेव वार, तत्र यदि प्रतिप्रदेशमिति पक्षस्तहि दृष्टान्तदान्तिकयोरसाम्यं, कञ्चुकेन प्रतिप्रदेशमस्पर्शात्, अथ त्वङ्मात्रे स्पृष्ट इत्यभ्युपगमः ततो नापा. न्तरालगत्यनुयायि कर्म, पर्यन्तमात्रवर्तित्वात् , बाह्याङ्गमलवत् , एवं सर्वोऽपि प्राणी भवापान्तरालगतिसंभवे मोक्षभाक्
REGNREGARHGRAT
Jain Education International
For Private & Personal use only
www.jainelibrary.org