________________
श्रीआव
श्यक मल
य० वृत्तौ
उपोद्घाते
मिथ्यात्वोदयतो विप्रतिपन्नः सन् इदमभिहितवान् — यद्येकादयो जीवप्रदेशाः खल्वेकप्रदेशहीना अपि न जीवव्यपदेशं लभन्ते, किन्तु चरमप्रदेशयुक्ताः, ततः स एवैकः प्रदेशो जीवः, जीवव्यपदेशस्य तद्भावभावित्वात् स एवं प्रतिपादयन् गुरुणाऽभिहितो-नैतदेवं, जीवाभावप्रसङ्गात्, तथाहि - भवदभिमतोऽन्त्योऽपि प्रदेशो न जीवः, अन्यप्रदेशतुल्यपरिमाणत्वात् प्रथमादिप्रदेशो वा जीवः, शेषप्रदेशतुल्य परिमाणत्वात् अन्त्यप्रदेशवत्, न च पूरण इतिकृत्वा तस्य जीवत्वं * युज्यते, एकैकस्य पूरणत्वाविशेषात्, एकमपि विना तस्यासम्पूर्णत्वात् उक्तं च - "गुरुणाऽभिहितो जइ तें पढमपएसो ॥४०५ ॥ ४ न सम्मतो जीवो। तो तप्परिणामोच्चिय जीवो कहमंतिमो एसो १ ॥ १ ॥ अहव स जीवो कह नाइमोत्ति १ को वा विसेसहेऊ ते १ । अह पूरणोति बुद्धी एकेका पूरणे तस्स ॥ २ ॥” ( विशेषा. २३३७-८ ) अपिच- कृत्स्नः - परिपूर्णो जीव इत्युक्तं, तत्र यदि प्रतिप्रदेशं जीवत्वं न स्यात् ततः कथमन्तिमप्रदेशप्रक्षेपेऽपि समुदाये जीवत्वं भवेत् १, प्रत्येकमभावात्, रेणुषु तैलघत्, आह च - "जं सबहा न वीसुं सबेसुवि तं न रेणुतेल्लं व । सेसेसु असब्भूतो जीवो कहमंतिमपरसे ॥ १ ॥ " ( विशेषा. २३४० ) अथ किमत्र युक्तिभिः !, आगमः प्रमाणम्, आगमे च शेषाः सर्वेऽपि प्रदेशा जीवत्वेन निषिद्धाः, न त्वन्तिमप्रदेशः, तस्मात् स एव जीव इति, तदप्ययुक्तं, अन्त्यस्यापि प्रदेशस्यैकत्वेन 'एगे भंते ! जीवप्पएसे जीवेत्ति वत्तवं सिया' इत्यादिना निषिद्धत्वात्, किंच-यदि तवागमः प्रमाणं तत आगमे 'जम्हा कसिणे पडिपुने लोगागासम्पएस तुल्लप्पए से जीवे जीवेत्ति वत्तवं सिया' इत्यनेन सर्वप्रदेशा जीवत्वेनाभिहिताः, समुदायस्य समुदायिभ्यो व्यतिरिक्तस्याभावात्, उक्तं च- 'आइ सुर्यमि निसिंद्धा सेसा न उ अंतिम्पएसो ॥ १ ॥ नणु एगोत्ति निसिद्धो
Jain Education Interoral
For Private & Personal Use Only
अन्त्यप्रदे
राजीवमतनिरासः
॥४०५॥
ww.jainelibrary.org