________________
श्रीआव
श्यक मल
य० वृत्तौ 4 उपोद्घाते
॥३९९॥
त्तयः परिणामाः, तत्र येऽपरिणामास्ते नयानां यः स्वः स्वः - आत्मीय आत्मीयो विषयो ज्ञानमेव श्रेयः क्रिया वा श्रेयसीत्यादिकस्तम श्रद्दधानाः ये त्वतिपरिणामास्तेऽपि यदेवैकेन नयेन क्रियादिकं वस्त्वभिहितं तदेव तन्मात्रं प्रमाणतया गृह्णन्तः तथा एकान्तवस्तुप्रतिपादकनयानां परस्परविरोधं च मन्वाना मा मिथ्यात्वं गच्छन्तु येऽप्युक्तस्वरूपाः परिणामास्ते यद्यपि न मिथ्यात्वमियति तथापि विस्तरेण नयैर्व्याख्यायमानैर्ये सूक्ष्माः सूक्ष्मतराश्च तद्भेदास्तान् ग्रहीतुमशक्ता भवेयुरित्यार्यरक्षितैः कालिके इत्युपलक्षणं उत्कालिके व नयविभागो - नयगतविस्तरव्याख्यारूपो न कृत इति ॥ यदुक्तम् 'अनुयोगस्ततः कृतश्चतुद्धे 'ति तत्रानुयोगचातुर्विध्यमुपदर्शयति मूलभाष्यकृत् —
कालियअं च इसि भासिआई तइओ अ सूरपन्नत्ती ।
सो अ दिट्टिवाओ चउत्थओ होइ अणुओगो ॥ १२४ ॥ (मृ. भा. ) जं च महाकप्पसुअं जाणि अ सेसाणि छेअसुन्ताणि । चरण-करणाणुओगन्ति कालिअत्थे उवगयाणि ॥ ७७७ ॥ कालिक श्रुतम् - एकादशाङ्गरूपं चरणकरणानुयोगरूपमिति गम्यते, तथा ऋषिभाषितानि - उत्तराध्ययनादीनि, धर्मकथानुयोग इति वाक्यशेषः, तृतीयोऽनुयोगः- कालानुयोगः, स च सूर्यप्रज्ञप्तिः, उपलक्षणमेतत् चन्द्रप्रज्ञस्यादिरपि तथा | सर्वश्व दृष्टिवादश्चतुर्थो भवत्यनुयोगः, ऋषिभाषितानि धर्म्मकथानुयोग इत्युक्तं, ततश्च महाकल्पश्रुतादीनामपि ऋषिभाषितत्वात् दृष्टिवादादुद्धृत्य तैस्तेषां प्रतिपादितत्वात् धर्म्मकथानुयोगत्वप्रसङ्ग इत्यत आह-यच्च महाकल्पश्रुतं यानि च शेषाणि छेदसूत्राणि - कल्पादीनि तानि सर्वाण्यपि वरणकरणानुयोग इति मन्तव्यानि । इयाणिं जहा देविंदवंदिया अज्जरक्खिया
Jain Education International
For Private & Personal Use Only
अनुयोगनयविभा
गः
॥ ३९९॥
w.jainelibrary.org