________________
सर्प-पर्णरूपं च 'तरुवरे' तरुवरस्याधः कृत्वा, तथा तिंदूसकेन-क्रीडाविशेषरूपेण हेतुना तिदूसकरूपया क्रीडया भगबता सह रमिष्ये इत्येवमर्थ 'डिम्भ' डिम्भरूपं च, कृत्वेत्यनुवर्तत, पिशाचरूपेण प्रवर्दितुं लग इति शेषा, ततः पृष्ठे मुख्या हतो वन्दित्वा वीरं प्रतिनिवृत्तः एषोऽक्षरार्थो, भावार्थः प्रागेवोकः ॥ अन्यदा भगवन्तमधिकाष्टवर्ष कला-18 प्रहणयोग्य विज्ञाय मातापितरौ लेखाचार्यायोपनीतवन्ती, तथा चाहअह तं अम्मापियरो जाणित्ता अहियअट्टावासं तु । कयकोउअलंकारं लेहायरियस्स उवणेति ॥ ७६ ॥ भा॥ __'अर्थ' भीषणानन्तरं कियकालातिकमे भगवन्तमधिकाष्टवर्ष मातापितरौ ज्ञात्वा कृतानि रक्षादीनि कौतुकादीनि से अलङ्काराश्च-केयूरादयो यस्य स तथा तं प्रवरहस्तिस्कन्धवरगतमुपरि समुक्काजालझाल्यदाना छत्रेण प्रियमाणेन चाम
राम्यां वीज्यमानं मित्रज्ञातिपरिजनसमेतं लेखाचार्याय-उपाध्यायाय उपनयतः, पाठान्तरं वा 'उवर्णिसु' उपनीतवन्तौ। उपाध्यायस्य महत् सिंहासनं रचितम्, अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव, अवधिना च प्रयोजनविधि विज्ञाय अहो खल्वपत्यस्नेहविलसितं भुवनगुरुं प्रति मातापित्रोः येन भगवन्तमपि लेखाचार्यायोपनेतुमभ्युद्यताविति सम्प्रधाोगत्य च उपाध्यायपरिकल्पिते बृहदासने भगवन्तं निवेश्य शब्दलक्षणं पृष्टवान् ॥ अमुमेवार्थ प्रतिपादयतिसको य तस्समक्खं भयवंतं आसणे निवेसित्ता। सहस्स लक्खणं पुच्छे वागरणं अवयवा इंदं ॥७॥ भा०॥
शको-देवराजः तत्समक्षं-लेखाचार्यसमक्षं भगवन्तं-तीर्थकरमासने निवेश्य शब्दस्य लक्षणं पृच्छति, भगवता च कन्याकरणमभ्यधायि, न्याक्रियन्ते लौकिका सामयिकाश्च अन्दा अनेनेति व्याकरण-शन्दशासं, तदवयवाः केचन
बा-सू.
Jain Education Intera
For Private & Personal Use Only
wr.jainelibrary.org