________________
आभरणानि-कटककेयूरादीनि रत्नानि-इन्द्रनीलादीनि वर्ष वृष्टं तीर्थकरे जाते; शक्रश्च देवराजस्तत्रैवोपागतः, तथा आगता महापद्मादयो निधयः ॥ तुट्ठातो देवीतो देवा आणंदिया सपरिसागा । भयवमि वदमाणे तेलुक्कसुहावहे जाए ॥ ६३ ॥ भा०॥
तुष्टा देव्यो देवा आनन्दिताः, सह पर्षदो यैर्येषां वा ते सपर्वत्काः, भगवति वर्द्धमाने त्रैलोक्यसुखावहे जाते सति ॥ गतं जन्मद्वारम् , अधुनाऽभिषेकद्वारं, तच्च ऋषभस्वामिवद्भावनीयं, तथापि किश्चित्प्रतिपादयति,
भवणवइवाणमंतरजोइसवासी विमाणवासी य । सविट्ठीए सपरिसा चउबिहा आगया देवा ॥६४॥ भा०॥ 8 भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति द्वन्द्वः, तथा विमानवासिनश्च च सर्वा सपर्षदश्चागताश्चतुर्विधा देवाः।
देवेहिं संपरिवुडो देविंदो गिण्हिऊण तित्थयरं । नेऊण मंदरगिरि अभिसेअंतत्थ से कासी ॥६५॥ भा०॥ | देवैः संपरिवृतो देवेन्द्रो गृहीत्वा तीर्थकरं नीत्वा मन्दरगिरि तत्राभिषेक 'से' तस्य भगवतोऽकार्षीत् ॥
काऊण य अभिसेयं देविंदो देवदाणवेहि समं । जणणीऍ अप्पइत्ता जम्मणमहिमं च कासीय ॥६६॥ भा०॥ ता देवेन्द्रो देवदानवैः सार्द्ध, देवग्रहणाज्योतिष्कवैमानिकपरिग्रहः, दानवग्रहणाद् भवनपतिव्यन्तरग्रहणम् , अभिषेकं कृत्वा
ततो जनन्याः समर्प्य जन्ममहिमां नन्दीश्वरे स्वर्गे च कृतवान् ॥ साम्प्रतं यदिन्द्रादयो भुवननाधेभ्यो भक्त्या प्रयच्छन्ति तत्प्रदर्शयन्नाहखोमं कुंडलजुयलं सिरिदामं चेव देह सको से । मणिकणगरयणवासं स्वच्छुभे जंभगा देवा ॥ ६७ ॥ भा० ॥
FAC+C+C+%A4%A
Jain Education
For Private & Personal Use Only
X
ww.jainelibrary.org