________________
चतुर्ध्वपि स्थानेषु-कुमारत्वमण्डलिस्वचक्रवर्तिपदव्रतपर्यायरूपेषु प्रत्येकमेकविंशतिवर्षाणां सहस्राणि भवन्ति ज्ञातव्यानि । मल्लिनाथस्यापि गृहवासे वर्षशतं, शेषं तु सर्वमायुतपर्यायः, तत्कियदिति चेत् अत आह-चतुष्पञ्चाशद्वर्षाणां सह-11 स्राणि नव च परिपूर्णानि शतानि । अर्धाष्टमानि वर्षाणां सहस्राणि कुमारवासः सुव्रतजिनस्य, तावदेव-अर्द्धाष्टमान्येव वर्षसहस्राणि पर्यायो-व्रतपर्यायः, पञ्चदश वर्षसहस्राणि राज्ये । नर्भगवतः कुमारवासो द्वे वर्षसहस्र अर्द्ध च-पञ्च वर्षशतानीत्यर्थः, तावत्क-अर्द्धतृतीयान्येव वर्षसहस्राणि व्रतपर्यायः, पञ्च वर्षसहस्राणि राज्ये । अरिष्ठनेमेस्त्रीणि वर्षशतानि 8 कुमारवासः, राज्यानभ्युपगमात् राज्यपर्यायाभावः, सप्त वर्षशतानि भवति श्रामण्यः पर्यायः । पार्श्वनाथस्य कुमारत्वं त्रिंशद्वर्षाणि, व्रतपर्यायः पुनर्भवति सप्ततिर्वाणि, वर्द्धमाने-चर्द्धमानवामिनो गृहवासस्त्रिंशद्वर्षाणि, व्रतपर्यायः द्विचत्वारिंशद्वर्षाणि ॥ सम्प्रति केवलिपर्यायो वकन्या, सच श्रामण्यपर्यायात् छद्मस्थपर्यायापगमे खयमेव ज्ञेय इति पूर्वो-1 कमेव श्रामण्यपर्यायं स्मारयतिउसभस्स पुचलक्खं पुवंगूणमजियस्स तं चेव । चउरंगणं लक्खं पुणो पुणो जाव सुविहित्ति ॥ ३२२ ॥ अस्या व्याख्या पूर्ववत्,
सेसाणं परियातो कुमारवासेण सहियतो भणितो। पत्तेयंपिय पुवं सीसाणमणुग्गहट्टाए ॥ ३२३ ॥ |
शेषाणां-शीतलस्वामिप्रभृतीनां पर्यायः पूर्व कुमारवासेन सह भणितः, प्रत्येकमपि च, किमर्थमुभयथापि भणित तइति चेत् अत आह-शिष्याणामनुग्रहाय, यतो मन्दमतीनामपि शिष्याणां बुद्धौ सम्यक् प्रतिस्फलति ॥
Jain Education Internet
For Private & Personal use only
Brainelibrary.org
k