________________
पोद्धातनियुकि
॥१५॥
१५१
उत्पमाः कुठकराः सप्त, इहार्डभरतं विद्यापरायवैताव्यपर्वतादारतः परिमाय, न तु परतो, व्याख्यानात् ॥ सम्पति 5 मरीचिः कुलकरवक्तव्यतामिधायिकां द्वारगायां प्रतिपादयति
कुलकरापुषभव १ जम्म २ नामं ३ पमाण ४ संघयणमेव ५ संठाणं ।
|धिकार: .वन्नि ७ स्थिया ८ ऽऽउ ९ भागा १० भवणोवातो १९ य नीई १२ ॥ १४९ ॥
गा. १९५कुलकराणां पूर्वभवा वक्तव्याः, ततो जन्म, तदनन्तरं नामानि, ततःप्रमाणानि, तदनन्तरं संहननं वकव्यम्, एवशब्द पूरणार्थः, तथा संस्थानं, ततो वर्णाः प्रतिपादयितन्याः, तदनन्तरं स्त्रियः, तत: आयुर्वक्तव्यं, तो भागा वाच्या:-कस्मिन् वयोभागे कुलकराः संवृत्ता इति, भवनेषूपपातो वक्तव्यः, भवनग्रहणं भवनपतिनिकायेषु तेषामुपपातो नान्यत्रेति प्रदर्शनार्थ, तथा नीतिश्च या यस्य हकारादिलक्षणा सा तस्य वक्तव्येति गाथाक्षरार्थः॥ अवयवाथै तु प्रतिद्वारं भाष्यकार: स्वयमेव वक्ष्यति, तत्र प्रथमद्वारावयवार्थाभिधित्सयेदमाह
अवरविदेहे दो वणियवयंसा माइ उजुगे चेव । कालगया इह भरहे हत्थी मणुओ प भापाया ॥ १५०॥ दहुँ सिणेहकरणं गयमारुहणं च नामनिप्फत्ती। परिहाणि गेहि कलहो सामत्थणं विनवणहत्ति ॥ १५१ ॥ अपरविदेहे द्वौ वणिग्वयस्थावभूतां, तद्यथा-एको मायी अपरश्च ऋजु, तौ च कालगताविह भरते आयाती, मायी
॥१५॥ हस्ती इतरो मनुष्य इति, ततो दृष्ट्वा परस्परं स्नेहकरणं, ततो गजारोहणं, तदनन्तरं नामनिवृत्तिः, गच्छता कालेन कल्पद्माणां परिहानिः, ततः प्रभूताप्रभूततरा गृद्धिस्तदनन्तरं कलहस्ततः 'सामथर्ण ति देशीवचनमेतत्पोडोचनमित्यर्थः,
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org