________________
उपोद्घातनिर्युक्तिः
॥ ११९ ॥
घातिनः पुनर्ब्रतोच्चारणं, उक्तं च - " सेहस्स निरइयारं तित्थंतरसंकमे व तं होज्जा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥ १ ॥” (वि.१२६९) 'उभयं चे 'ति सातिचारं निरतिचारं च स्थितकल्पे - प्रथमपश्चिमतीर्थ करतीर्थे, तथा परिहरणं परिहारः| तपोविशेषस्तेन विशुद्धिर्यस्मिन् चारित्रं तत्परिहारविशुद्धिः, तच्च द्विधा - निर्विशमानकं निर्विष्टकायकं च, तत्र निर्विशमानका| विवक्षित चारित्र सेवका निर्विष्टकायिका - आसेवितविवक्षितचारित्रकायाः, तद्व्यतिरेकाच्चारित्रमेवमुच्यते, इह नवको गणश्चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिणः एकः कल्पस्थितो वाचनाचार्यः, यद्यपि च सर्वेऽपि श्रुतातिशयसम्पन्नास्तथापि कल्पत्वात्तेषामेकः कश्चित्कल्पस्थितोऽवस्थाप्यते, निर्विशमानकानां चायं परिहारः - " परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणितो धीरेहिं पत्तेयं ॥ १॥ तत्थ जहन्नो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ । अट्ठममिह उकोसो एत्तो सिसिरे पवक्खामि ॥२॥ सिसिरे उ जहन्नाई, छठ्ठाई दसमचरिमगो होइ । वासामु अट्ठमाई बारसपजंतगो नेओ ॥ ३ ॥ पारणगे आयामं, पंचसु गहु दोसऽभिग्गहो भिक्खे। कप्पट्ठियाइ पइदिण करेंति एमेव आयामं ॥ ४ ॥ एवं छम्मासतवं चरितं परिहारगा अणुचरंति । अणुचरगे परिहारियपयट्ठिए जाव छम्मासा ॥५॥ कप्पट्ठितोवि एवं छम्मास तवं करे इ सेसा उ। अणुपरिहारगभावं वयंति कप्पठियत्तं वा ॥ ६ ॥ एवेसो अट्ठारसमासपमाणो उ वन्नितो कप्पो । संखेवतो विसेसो विसेससुसाउ नायवो ॥७॥ कप्पसमतीऍ तयं जिणकप्पं वा उवेंति गच्छं वा । पडिवज्जमाणगा पुण, जिणस्सगासे पवज्र्ज्जति ॥ ८ ॥ वित्थयरसमीवासेवगस्स पासे व नो उ अन्नस्स । एएसिं जं चरणं परिहारविसुद्धियं तं तु ॥ ९ ॥” ( पंचव० ) अथैते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा भवन्ति १, उच्यते, इह क्षेत्रादिनिरूपणार्थं विंशतिर्द्वाराणि तद्यथा क्षेत्रद्वारं १ कालद्वारं २
Jain Education International
For Private & Personal Use Only
सामायिकादीति
॥ ११९ ॥
www.jainelibrary.org