SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ AECS4 सम्यक्त्ववद्भिः सर्वथैव तत्परिचयः परिहर्त्तव्यः । इति कुदृष्टिपरिचये नंदमणिकार वृत्तांतः ५। इत्येवं दूष्यते जिनलाभसम्यक्त्वमेभिरिति दूषणानि इमानि शंकादीनि पंच प्रोक्तानि एतेषां च सम्यक्त्वमालिन्यहेतुत्वात् सम्यग्दृष्टि-11 प्रथम: रिभिरवश्यं परिहारः कार्यः ॥ अथ प्रभावकाष्टकं व्यख्यायते-प्रवचनीत्यादि, तत्र प्रवचनं द्वादशांगीरूपं तदस्या-| प्रकाशे विरचित स्ति अतिशयवदिति प्रवचनी, वर्तमानकालोचितसूत्रार्थधारस्तीर्यवाहक आचार्य इत्यर्थः । अयं च देवर्द्धिगणिक्षमा सम्यक्त आत्म-IPI श्रमणादिवदायः प्रवचनप्रभावको बोध्या, देवर्द्धिगणिक्षमाश्रमणकथानकं चेदंप्रबोधग्रन्थे एकदा राजगृहनगर्या श्रीवर्द्धमानस्वामिना समवसृतं, देवः समवसरणं च रचितं, द्वादशापि पर्षदोमिलितः, सौधर्मेंद्रोऽपि समागत्य भगवंतं त्रिःप्रदक्षिणीकृत्य वंदित्वा उचितस्थाने उपविष्टः । तदा भगवता सकलभव्योपकाराय सजलजलधरध्वानानुकारिणा स्वरेण परमानंदसुधारसस्राविणी निबिडतरमोहांधकारविद्राविणी निखिलजगअंतुचित्तचमत्कारकारिणी महामनोहारिणी धर्मदेशना प्रदत्ता । ततो देशनांते इंद्रः पप्रच्छ-'स्वामिन्नस्याभवसर्पिण्यां भवदीयं तीर्थ कियत्कालं प्रतिष्यते ? कया रीत्या च विच्छेदं यास्यति ।' भगवानाह-" इंद्र! एकविंशतिसहस्रवर्षप्रमाणं दुःषमानामकं पंचमारकं यावन्मे तीर्थ प्रतिष्यते।ततःपंचमारकमांतदिने पूर्वाहे श्रुत १ सूरि २ धर्म ३ संघा ४ विच्छेदं यास्यंति, मध्याहे च विमलवाहननृपसुधर्ममंत्रितद्धर्मा विच्छेदं यास्यति । सायाहे च बादरवह्निविच्छेदं यास्यति । इत्थं तीर्थविच्छेदो भावी ।” अथ पुनरिंद्रः पप्रच्छ-'स्वामिन् ! भावतां पूर्वगतं श्रुतं कियत्कालं स्थास्यति ।' भगवानाह-'भो इंद्र ! एक वर्षसहस्रं यावन्मे पूर्वगतं स्थास्यति, ततो EHSASSASSAGGISSKK ACCCC Jain Education Intem For Private & Personal use only Filw.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy