SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ जिनलाभ प्रकाशे मुरि विरचिते आत्मप्रबोधग्रन्थे ॥५६॥ भावः, एवंविधविचारणया हि सम्यक्त्वस्य विशोध्यमानत्वादेतास्तिस्रःशुद्धय उच्यते। अन्यत्र पुनरन्यथा तिस्रः प्रथम: शुद्धयः प्रोक्तास्तद्यथा-मणवायाकायाणं, सुद्धी सम्मत्तसाहणा तत्थ । मणसुद्धी जिणजिणमय-वजमसारं मुग णइ लोयं ॥ १॥ तित्थंकरचलणारा-हणेण जे मज्झ सिज्झइन कजं । पत्थेमि तत्थ नन्नं, देवविसेसं च वयसुद्धीसम्यक्त्व ॥ २॥ छितो भिजतो, पीलिजंतो वि डज्झमाणो वि । जिणवजदेवयाणं, न नमइ जो तस्स तणुसुद्धी ॥ ३ ॥ स्वरूप व्याख्या-मनोवाकायानां त्रयाणां करणानां शुद्धिः सम्यक्त्वस्य साधनभूता विद्यते, त्रिकरणशुद्धयैव सम्य. ॥५६॥ क्त्वमुत्पद्यत इत्यर्थः, तत्र यदा जिनजिनमतवर्ज सर्वमपि लोकमसारं मन्यते असारतया जानाति तदा मनः शुद्धिर्भवति, इयं प्रथमा शुद्धिः १ । तथा तीर्यकरचरणाराधनेन यन्मम कार्य न सिद्धयति तत्र कार्ये अन्यं देवविशेषं न प्रार्थयामि, एतावता जिनभक्त्या यत्कार्य न जातं तदन्यस्मात् कुतो भवतीत्यर्थः, एतादृग् मुखेन यद्भाषणं मा वाक्शुद्धिः, इयं द्वितीया २ तथा यः शस्त्रादिना छिद्यमानो भिद्यमानः पीड्यमानो दह्यमानोऽपि सन् जिनवर्ज परं देवं मनागपि कायेन न नमति तस्य तनुशुद्धिर्भवति, इयं तृतीया ३ । इति गाथात्रयार्थः ॥ इति शुद्धित्रिकं ।। अथ दूषणपंचकं व्याख्यायते-शंकाकांक्षेत्यादि, तत्र शंका रागद्वेषविमुक्त| यथार्थोपदेशकसर्वज्ञोक्तवचनेषु संशयः, सा च सम्यक्त्वविधातहेतुत्वात् सम्यग्दर्शनिभिः सर्वथैव परिहर्तव्या, | यतो लोकेऽपि शंकाकर्त्तनरस्य कार्य विनश्यदेव दृश्यते, यस्तु शंकां न विदधाति तस्य तु अवश्यमेव कार्यसिद्धिविलोक्यते, तत्र च व्ययहारिकद्वयदृष्टांतः, स चायं--एकस्यां नगर्या द्वौ व्यवहारिको वसतः। तौ च प्राक्तनक Main Education Intemala For Private & Personal use only A jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy