________________
प्रथमः
आत्मप्रबोधग्रन्थे ॥२३॥
प्रकाशे
तात्पर्येण बहुमानपुरस्सरं जीवादिपदार्थावगमायाभ्यास इत्यर्थः, इदं प्रथम श्रद्धानं १ तथा परमार्थज्ञातणामाचार्यादीनां सेवनं भक्तिः, इदं द्वितीयं श्रद्धानं २ । तथा व्यापन्नं विनष्टं दर्शनं सम्यक्त्वं येषां ते व्यापन्नदर्शना | निह्नवादयस्तेषां वर्जनं परिहार इदं तृतीयं श्रद्धानं ३ । तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः सौगतादयस्तेषां वर्जनमिदं चतुर्थ श्रद्धानं ४ । सम्यक्त्वं श्रद्धीयतेऽस्तीति प्रतिपद्यते एभिरिति श्रद्धानानीमानी चत्वारि प्रोक्तानि। सम्यग्दर्शनिना हि स्वगुणविशुद्धिकारकं परमार्थसंस्तवादिकं सर्वदैव समाचरणीयम् । तथा दर्शनमालिन्यहेतुभूतो व्यापन्नदर्शनादिसंसर्गस्तु परिवर्जनीयः, अन्यथा प्रवरतरसुधासन्निभमपि गंगोदकं यथा लवणोदसमुद्रसंसर्गात्सद्यो लवणत्वमासादयति, तथा सम्यग्दृष्टिरपि गुणहीनसंसर्गादिरूपत्वं भजतीति तात्पर्य अथ लिंगा त्रयं व्याख्यायते-श्रोतुमिच्छा शुश्रूषा सद्बोधहेतुधर्मशास्त्रश्रवणवांच्छेत्यर्थः, अयं भावः-यथा कोपि सुखी विदग्धो रागी तरुणश्च पुमान् प्रियकांतायुक्तः सन् सुरगीतं श्रोतुमिच्छति ततोऽप्यधिकतमा सिद्धांतशुश्रूषा सम्यM क्त्वे सति भव्यानां भवतीति । इदं प्रथमं लिंग १। तथा धर्मश्चारित्रादिस्तत्र यो रागोऽनुरागः स धर्मरागः,
इदमत्र तात्पर्य-यथा कोऽपि कांतारातीतो दुर्गतो बुभुक्षाक्षीणशरीरो ब्राह्मणो घृतपूरान् भोक्तुमिच्छति, तथा सत्यक्त्ववतो जीवस्य तथाविधकर्मदोषतः सदनुष्ठानादिधर्म कर्नुमशक्तस्यापि तत्रधर्मेऽत्यर्थमभिलाषो भवतीति | द्वितीयं लिंग २ । तथा देवगुरूणां वैयावृत्त्ये नियमः, अयमर्थः-देवा आराध्यतमा अर्हतो गुरवश्व धर्मोपदेशका आचार्यादयस्तेषां वैयावृत्त्ये यथाशक्ति पूजाविश्रामणादौ नियमः श्रेणिकादिवत् अवश्यं कर्तव्यतांगीकारः, स
सम्यक्त्व स्वरूपं
55555
Jain Education in
HIN
For Private & Personal use only
|www.jainelibrary.org