________________
आत्मप्रबोधग्रन्थे ॥२१॥
प्रथमः प्रकाशे सम्यक्त्व
स्वरूपं ॥२१॥
2985255
प्रेक्षमाणजनानां भावोल्लासो भवति । अथैवं श्रुत्वा तद्विवेकेन तुष्टो नृपस्तस्योपरि अतीव प्रसादं कृतवान्, एवं चोक्तवान्-एषा मे चित्रसभा एवंभूतैव सती अपूर्वप्रसिद्धिमती भवतादित्यत एवमेव तिष्ठतु इति । अत्र चैष । उपनयः-यदत्र साकेतपुरं स तु अतिमहान् संसारः, यश्च महाबलोराजा स सम्यगुपदेष्टा आचार्यः, या हि सभा सा मनुष्यगतिः, यश्च चित्रकरः स भव्यजीवः, या च चित्रसभाया भूमिस्तत्सम आत्मा, यश्च भूमिसंस्कारस्तत्सम्यक्त्वं, यदत्र चित्रं स धर्मः, यानि च नानाविधचित्ररूपाणि तानि बहुविधप्राणातिपातविरत्यादिव्रतानि,
ये त्वत्र चित्रोद्दीपकाः शुक्लादिवर्णास्ते धर्मशोभाविधायिनो विविधा नियमाः, योऽत्र भावोल्लासस्तज्जीववीर्यमिति॥ हा एवं प्रभासाभिधचित्रकृद्धत्, कार्यात्मभूमिर्विवुधविशुद्धा । येनोज्ज्वलं कर्मविचित्रचित्रं, शोभामनन्यप्र
तिमां दधीत ॥ १ ॥ इति प्रभासचित्रकारकथा ॥ स एतेन सर्वधर्मकार्येषु सम्यक्त्वस्य प्राधान्य दर्शितं, सांप्रतं पुनर्विस्ताररुचिसत्त्वानामुपकारार्थ तत्सम्यक्त्वमेव सप्तषष्टिभेदैविभाव्यते
चउसद्दहण ४ तिलिंगं ३, दसविणय १०तिसुद्धि ३ पंच गयदोस। अपभावण ८ भूसण ५, लरूखण ५ पंचविहसंजुत्तं ॥ १३ ॥ छविहजयणा ६ गारं, छम्भावण ६ भावियं च छहाणं ६। इय सत्तसहि ६७ लख्खग-भेयविसुद्धं च संमत्तं ॥१४॥
Jain Education Interna 1024
For Private & Personal use only
Alww.jainelibrary.org