________________
जिनलाभसूरि
विरचिते
आत्म
प्रबोधग्रन्थे ॥२७७॥
Jain Education Interna
शोषसमये जलाश्रित सेवालाद्यनंत कायिकानां पूतरशंबूकमत्स्य मंडूकादीनां त्रसानां च प्रत्यक्षं विनाशदर्शनात्, | मत्स्यादीनामप्यन्योऽन्यं जीव भक्षणाच । तथा नास्ति पुण्यमिति वदतश्चांतरायदोषः स्यात्, बहूनां पशुपक्षिमनुष्याणां तृषार्त्तानां जलदानव्यवच्छेदात् । तस्मान्मौनमेवावलंबेत । यद्वा 'नेदृशेषु लौकिक कार्येषु अस्माकं भाषणा| धिकार' इति ब्रूयात् । यदुक्तं सूत्रकृदंगसूत्रे - तहा गिरं समारम्भे, अस्थि पुण्णंति नो वए। अहवा नत्थि पुण्णंति, एवमेयं महन्भयं ॥ १ ॥ दाणट्टयाइ जे पाणा, हन्नंति तस्थावरा । तेसिं सा रक्खणट्ठाए, तम्हा अस्थित्ति नो वए ॥ २ ॥ जेसिं तं उवकप्पेह, अन्नपाणं तहाविहं । तेसिं लाभंतरायं ति, तम्हा नस्थित्ति नो वए || ३ || जे अ दाणं पसंसंति, वहमिच्छति पाणिणं । जे अण्णं पडिसेहंति, वित्तिच्छेयं करेंति ते ||४|| दुहओ वि न भासंति, 1 अस्थि वा नत्थि वा पुणो । आर्थरहस्स हिच्चा णं, नव्वाणं पाउणंति ते ॥ ५ ॥ इति ।
तथा दत्तस्य पुरः कालिकाचार्यैरिव सुकृतार्थिभिः साधुभिर्विपत्तावपि सत्यमेव वचो भाषणीयं, न पुनर्मृषेति, यथा तुरमिणीनगर्यां कालिकाचार्याणां भागिनेयेन दत्तनाम्ना पुरोहितेन छलात्स्वस्वामिनृपं कारागारे निक्षिप्य स्वयं राज्यभारं बिभ्रता अन्यदा मातृप्रेरणयाऽऽचार्यसमीपं गतेनोन्मत्ततया धर्मे र्घ्यया च सक्रोधं साग्रहं श्रीकालिकाचार्येभ्यो यज्ञफले पृष्ठे सति श्रीगुरु धैर्यमवलंब्य तस्य पुरो 'यज्ञो हिंसारूपो, हिंसायाः फलं च नरक' इति सत्यमेव वचः प्रोक्तवान्, न पुनरन्यथा । ततः कोऽत्र प्रत्ययः ?' इति तेन पृष्टे सति सूरिणोक्तं- 'त्वं सप्तमे दिने श्वानैर्भक्षितः कुंभ्यां पक्ष्यसे' । 'अत्रापि का प्रत्ययः ?' इति तेन पुनः पृष्ठे सति गुरुणोक्तं- 'तस्मिन्नेव दिनेऽकस्मात्तव मुखे
For Private & Personal Use Only
तृतीय प्रकाशे देशविरति
स्वरूपं
॥२७७।।
www.jainelibrary.org