SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ जिनलाभसूरि विरचिते आत्म प्रबोधग्रन्थे ॥२७७॥ Jain Education Interna शोषसमये जलाश्रित सेवालाद्यनंत कायिकानां पूतरशंबूकमत्स्य मंडूकादीनां त्रसानां च प्रत्यक्षं विनाशदर्शनात्, | मत्स्यादीनामप्यन्योऽन्यं जीव भक्षणाच । तथा नास्ति पुण्यमिति वदतश्चांतरायदोषः स्यात्, बहूनां पशुपक्षिमनुष्याणां तृषार्त्तानां जलदानव्यवच्छेदात् । तस्मान्मौनमेवावलंबेत । यद्वा 'नेदृशेषु लौकिक कार्येषु अस्माकं भाषणा| धिकार' इति ब्रूयात् । यदुक्तं सूत्रकृदंगसूत्रे - तहा गिरं समारम्भे, अस्थि पुण्णंति नो वए। अहवा नत्थि पुण्णंति, एवमेयं महन्भयं ॥ १ ॥ दाणट्टयाइ जे पाणा, हन्नंति तस्थावरा । तेसिं सा रक्खणट्ठाए, तम्हा अस्थित्ति नो वए ॥ २ ॥ जेसिं तं उवकप्पेह, अन्नपाणं तहाविहं । तेसिं लाभंतरायं ति, तम्हा नस्थित्ति नो वए || ३ || जे अ दाणं पसंसंति, वहमिच्छति पाणिणं । जे अण्णं पडिसेहंति, वित्तिच्छेयं करेंति ते ||४|| दुहओ वि न भासंति, 1 अस्थि वा नत्थि वा पुणो । आर्थरहस्स हिच्चा णं, नव्वाणं पाउणंति ते ॥ ५ ॥ इति । तथा दत्तस्य पुरः कालिकाचार्यैरिव सुकृतार्थिभिः साधुभिर्विपत्तावपि सत्यमेव वचो भाषणीयं, न पुनर्मृषेति, यथा तुरमिणीनगर्यां कालिकाचार्याणां भागिनेयेन दत्तनाम्ना पुरोहितेन छलात्स्वस्वामिनृपं कारागारे निक्षिप्य स्वयं राज्यभारं बिभ्रता अन्यदा मातृप्रेरणयाऽऽचार्यसमीपं गतेनोन्मत्ततया धर्मे र्घ्यया च सक्रोधं साग्रहं श्रीकालिकाचार्येभ्यो यज्ञफले पृष्ठे सति श्रीगुरु धैर्यमवलंब्य तस्य पुरो 'यज्ञो हिंसारूपो, हिंसायाः फलं च नरक' इति सत्यमेव वचः प्रोक्तवान्, न पुनरन्यथा । ततः कोऽत्र प्रत्ययः ?' इति तेन पृष्टे सति सूरिणोक्तं- 'त्वं सप्तमे दिने श्वानैर्भक्षितः कुंभ्यां पक्ष्यसे' । 'अत्रापि का प्रत्ययः ?' इति तेन पुनः पृष्ठे सति गुरुणोक्तं- 'तस्मिन्नेव दिनेऽकस्मात्तव मुखे For Private & Personal Use Only तृतीय प्रकाशे देशविरति स्वरूपं ॥२७७।। www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy