SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ जिनलाममूरि विरचिते आत्म प्रभोधग्रन्ये ॥२६८ ।। Jain Education Inter नात्मकं ४ । इदं ध्यानं हि जिनोक्ततत्वश्रद्धानादिचिह्नगम्यं देवगत्यादिफलसाधकं च ज्ञातव्यं । एतत्संभवस्तु चतुर्थात्पंचमाद्वा गुणस्थानादारभ्य सप्तमाष्टमे यावदवगंतव्यः । तत्र चतुर्थे आद्यौ द्वौ भेदौ पंचमे तु त्रय इति विशेषः । तथा शोधयति अष्टप्रकारं कर्ममलमिति शुक्लं, तच्च पृथक्त्ववितर्कसप्रविचार १ एकस्ववितर्काप्रविचार २ सूक्ष्मक्रियाऽप्रतिपाति ३ समुच्छिन्नक्रियाऽनिवृत्ति ४ भेदाच्चतुर्विधं । तत्र च यस्मिन् भावश्रुतानुसारेण अंतरंग ध्वनिरूपो वितर्कोऽर्थादर्थांतरे, शब्दात् शब्दांतरे, योगाद्योगांतरे च संक्रमते, पुनर्निजशुद्धात्मद्रव्याद् द्रव्यांतरं याति, गुणाद्गुणांतरं याति पर्यायाद्वा पर्यायांतरं याति तत्प्रथमं, उक्तं च श्रुतचिता वितका स्था-द्विचारः संक्रमो मतः । पृथक्त्वं स्यादनेकत्वं भवत्येतत्रयात्मकं ॥ १ ॥ स्वशुद्धात्मानुभूत्यात्म-भावश्रुतावलंबनात् । अंतर्जल्पो वितर्कः स्यात्, यस्मिंस्तत्सवितर्कजम् ॥ २ ॥ अर्थादर्थांतरे शब्दात्, शब्दांतरे च संक्रमः । योगायोगांतरे यंत्र, सविचारं तदुच्यते ॥ ३ ॥ द्रव्याद्रव्यांतरं याति गुणाद्याति गुणांतरम् । पर्यायादन्यपर्याय, स पृथक्त्वं भवत्यतः ॥ ४ ॥ एतच्चाष्टमगुणस्थानादारभ्य एकादशं यावद्भवति १ । यत्पुनर्निश्चलस्यैकद्रव्यस्यैकपर्यायस्य वा एकगुणस्य वा शब्दात् शब्दांतरमित्यादिसंक्रमणरहितं भावश्रुतावलंबनेन चिंतनं तद् द्वितीयं, इदं च द्वादश एव गुणस्थाने भवति, त्रयोदशे तु ध्यानांतरिका भवेत् २ । ततो यत्र केवली भगवान् अचित्यात्मशक्त्या बादरकाययोगे स्वभावतः स्थिति कृत्वा बादरवचनमनोयोगयुगलं सूक्ष्मीकरोति, ततः सूक्ष्मवचनमनसोः स्थिति : कृत्वा पावरकाययोगं सूक्ष्मत्वं प्रापयति, ततः सूक्ष्मकाययोगे पुनः क्षणमात्रं स्थितिं कृत्वा सद्यः सूक्ष्मवाक्चित्तयोः सर्वथा निग्रहं For Private & Personal Use Only तृतीय प्रकाशे देशविरति स्वरूपं ॥२६८॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy