________________
जिनलाममूरि विरचिते
आत्म
प्रभोधग्रन्ये
॥२६८ ।।
Jain Education Inter
नात्मकं ४ । इदं ध्यानं हि जिनोक्ततत्वश्रद्धानादिचिह्नगम्यं देवगत्यादिफलसाधकं च ज्ञातव्यं । एतत्संभवस्तु चतुर्थात्पंचमाद्वा गुणस्थानादारभ्य सप्तमाष्टमे यावदवगंतव्यः । तत्र चतुर्थे आद्यौ द्वौ भेदौ पंचमे तु त्रय इति विशेषः । तथा शोधयति अष्टप्रकारं कर्ममलमिति शुक्लं, तच्च पृथक्त्ववितर्कसप्रविचार १ एकस्ववितर्काप्रविचार २ सूक्ष्मक्रियाऽप्रतिपाति ३ समुच्छिन्नक्रियाऽनिवृत्ति ४ भेदाच्चतुर्विधं । तत्र च यस्मिन् भावश्रुतानुसारेण अंतरंग ध्वनिरूपो वितर्कोऽर्थादर्थांतरे, शब्दात् शब्दांतरे, योगाद्योगांतरे च संक्रमते, पुनर्निजशुद्धात्मद्रव्याद् द्रव्यांतरं याति, गुणाद्गुणांतरं याति पर्यायाद्वा पर्यायांतरं याति तत्प्रथमं, उक्तं च श्रुतचिता वितका स्था-द्विचारः संक्रमो मतः । पृथक्त्वं स्यादनेकत्वं भवत्येतत्रयात्मकं ॥ १ ॥ स्वशुद्धात्मानुभूत्यात्म-भावश्रुतावलंबनात् । अंतर्जल्पो वितर्कः स्यात्, यस्मिंस्तत्सवितर्कजम् ॥ २ ॥ अर्थादर्थांतरे शब्दात्, शब्दांतरे च संक्रमः । योगायोगांतरे यंत्र, सविचारं तदुच्यते ॥ ३ ॥ द्रव्याद्रव्यांतरं याति गुणाद्याति गुणांतरम् । पर्यायादन्यपर्याय, स पृथक्त्वं भवत्यतः ॥ ४ ॥ एतच्चाष्टमगुणस्थानादारभ्य एकादशं यावद्भवति १ । यत्पुनर्निश्चलस्यैकद्रव्यस्यैकपर्यायस्य वा एकगुणस्य वा शब्दात् शब्दांतरमित्यादिसंक्रमणरहितं भावश्रुतावलंबनेन चिंतनं तद् द्वितीयं, इदं च द्वादश एव गुणस्थाने भवति, त्रयोदशे तु ध्यानांतरिका भवेत् २ । ततो यत्र केवली भगवान् अचित्यात्मशक्त्या बादरकाययोगे स्वभावतः स्थिति कृत्वा बादरवचनमनोयोगयुगलं सूक्ष्मीकरोति, ततः सूक्ष्मवचनमनसोः स्थिति : कृत्वा पावरकाययोगं सूक्ष्मत्वं प्रापयति, ततः सूक्ष्मकाययोगे पुनः क्षणमात्रं स्थितिं कृत्वा सद्यः सूक्ष्मवाक्चित्तयोः सर्वथा निग्रहं
For Private & Personal Use Only
तृतीय प्रकाशे देशविरति स्वरूपं
॥२६८॥
www.jainelibrary.org