SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ हैतीय प्रकाये देशविरवि दा॥२६॥ . अमुं दृष्टांतलेशं निशम्य मुनिभिः दोषत्यागे यत्रो विधेयः। अन्यच्च स्वयं स्वाध्यायं कुर्वता परं प्रति कारयता जिनलाभ तूच मुनिना प्रथमं षोडश वचनानि अवश्यं ज्ञेयानि, तानि चानुयोगद्वारादिसूत्रोक्तान्यमूनि-- सरि । विरचिते लिंगलियं ३ वयणतियं ६, कालतियं ९ तह परोक्ख १० पच्चक्ख ११ । बास्म उवणयऽवणयचउक्कं १५, अज्झत्थं १६ चेव सोलसमं ॥ ११ ॥ प्रबोधग्रन्थे ५ व्याख्या-इयं स्त्री अयं पुमान् इदं कुलमित्यादीनि त्रीणि स्त्रीपुंनपुंसकलिंगप्रधानानि वचनानि | तथा देवा ।२६६॥ देवी देवाः इत्येवंरूपाणि त्रीणि एकवचन द्विवचनबहुवचनप्रधानानि वचनानि । अकरोत् करोति करिष्यतीत्यादीनि त्रीणि अतीतवर्तमानानागतकालनिर्देशप्रधानानि वचनानि । तथा स इति परोक्षनिर्देशः परोक्षवचनं, अयमिति प्रत्यक्षनिर्देशः प्रत्यक्षवचनं, तथा उपनयापनयवचनं चतुर्धा, तत्र उपनयवचनं-प्रशंसावचनं, यथा-रूपवतीयं स्त्री, अपनयवचनं-निंदावचनं, यथा-कुरूपेयं स्त्री, उपनयापनयवचनं यत्प्रशस्य निंदति, यथा-रूपवतीयं स्त्री परं दुःशीला, अपनयोपनयवचनं यन्निंदित्वा प्रशंसति, यथेयं कुरूपा परं सुशीलेति। तथाऽन्यचेतसि निधाय विप्रतारकबुद्धयाऽन्यद्वक्तुमिच्छन्नपि सहसा यच्चेतसि तदेव वक्ति तदध्यात्मवचनं षोडशमिति। ये किल एतानि षोडशवचनान्यजानत एव सूत्रवाचनादौ प्रवर्तते ते मूढा जिनवचनोल्लंघनाजिनाज्ञाया विराधका एव, न त्वाराधकाः, अतः सुसाधुभिरेतत्परिज्ञानपूर्वकमेव प्रागुक्तविधिना सूत्रार्थस्वाध्यायो विधेयः ४ । तथा ध्यान अंतर्मुह |र्तमानकालमेकाग्रचित्ताध्यवसायं, तचतुर्धा-आर्त १ रौद्र २ धर्म ३ शुक्ल ४ भेदात् । तत्र ऋते-दुःखे पीड़िते वा CASSECSCLAI नद्र Jain Education Inter For Private & Personal use only (RNwww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy