SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ तृतीय देवपिरति ॥२६५॥ रुक्तिः२,हीनाक्षरत्वं ३,अत्यक्षरत्वं ४,पदहीनत्वं ५.विनयहीनत्वं ६,उदात्तादिघोषहीनत्वं ७,योगहीनत्वं अकृतयोजिनलाभसरि गोपचारता ८,सुष्ठुदानं अल्पश्रुताहस्य पात्रस्य गुरुणा अधिकप्रदानमित्यर्थः ९, दुष्टुप्रतीप्मनं-कलुषहृदा अहणं विरचिते १०,अकाले स्वाध्यायस्य करणं११,काले चाकरणं१२,अस्वाध्याये सति स्वाध्यायकं१३,स्वाध्यायके सति न स्वाध्यायकं आत्म- १४ । एतत्स्वरूपं विशेषत आवश्यकादेज्ञेयं । एतानतीचारान् वर्जयित्वा स्वाध्यायं कुर्वतां मुनीनां महालाभःसंपप्रयोषमन्येने द्यते, अन्यथा विद्याधरस्येव विद्याचैफल्यादयो महादोषाः संभवेयुरिति। तत्र हीनाक्षरत्वदोषे विद्याधरष्टांतस्त्वयं॥२६५॥ १ एकदा राजगृहनगरस्य पार्श्वस्थोद्याने श्रीवीरस्वामी समवसृतः, तदा स्वाम्यागमनवाश्रिवणात् हृष्टा सन् श्रेणिको राजा अभयकुमारादिसंयुतस्तत्रागत्य स्वामिनं त्रिप्रदक्षिणीकृत्य नत्वा प्रवरतरसुरासुरविद्याधरनरनि करविराजितायां सभायां स्वोचितस्थाने उपविष्टः । ततो धर्म श्रुत्वा पर्षदि प्रतिगच्छंत्यां सत्यां एकः कश्चिद्विः Kधाधरो गगने गंतुमुत्पतन् पुनः पुनः पृथिव्यां पपात । तदा श्रेणिकस्तस्य तत्स्वरूपं वीक्ष्य विस्मितः सन् स्वामिनं प्रति तदुत्पातनिपातकारण पप्रच्छ । तदा स्वामिना भणितं-अस्य गगनगामिन्या विद्याया एकमक्षरं प्रभ्रष्टमस्ति. तेनासो उच्चैगतुं न क्षमः।' ततो नृपपार्श्वस्थेनाभयकुमारेण तजिनवचः श्रुत्वा सद्यस्तत्र गत्वा विद्याधरं प्रत्युक्तं 'भोस्तव विद्याया एकमक्षरं प्रभ्रष्टमस्ति तदहं तुभ्यं ददामि, यदि त्वं मधमेतां विद्यां दद्यास्तदा तेनापि तदूचने प्रतिपन्ने सति अभयकुमारो न्यूनाक्षरं तस्मै दत्त्वा तां विद्यां च तस्माद्गृहीत्वा स्वस्थानमगात् । विद्याधरोऽपि संप्राप्तपूर्णविद्यः सन् आकाशे उत्पतितः क्रमेण स्वस्थानं च प्राप्तः । इति विद्याधरवृत्तांतः । % % Jain Education Inte For Private & Personal use only |www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy