________________
परि
देववि
॥२३॥
P अत एव मदुकादिवत् यथार्थवाग्युक्त्याऽपास्ता-निरुत्तरीकरणात्पराजयं नीता मतांतरस्था:-कुलिंगिनो यैस्ते, जिनलाभ
तथा,पुनरात्मधर्मस्य य उज्ज्वलो मार्गस्तत्र मग्ना-एकाग्रचिता,एवंविधाः शुद्धबुद्धिधारकाः श्रद्धालवो जयंतु इति। विरचिते
मदुकश्राद्धवृत्तांतस्तु विस्तरतः पंचमांगे (१८शते७ उद्देशके)निर्दिष्टोऽस्ति । स च लेशतोऽत्रापि दयते
राजगृहं नाम नगरं, तस्य पार्चे गुणशीलकं नाम चैत्यमभूत्। तत्समीपप्रदेशे च बहवः कालोदायि-शेवालो
दायिप्रभृतयोज्ययूथिका वसंति स्म । तेषां चैकदा एकत्र मिलितानां मिथः कथासंलापः समुत्पन्नः, यदुत महा॥२३८॥ वीरो धर्मास्तिकायादीन पंचास्तिकायान् प्ररूपयति , तत्र च धर्माधर्माकाशपुद्गलास्तिकायान् अचेतनान् जीवा
|स्तिकायं च सचेतनं प्ररूपयति, तथा धर्माधर्माकाशजीवास्तिकायानरूपिणः पुद्गलास्तिकायं च रूपिणं प्ररूपयति। |एवं हि सचेतनाचेतनादिरूपेणादृश्यमानत्वात्कथमेतन्मन्यते ? इति । तथा तत्रैव नगरे मददुको नाम श्रमणोपासको वसति स्म । स च महासमृद्धिमान् सर्वलोकमान्योऽधिगतजीवाजीवपदार्थो नित्यं धर्मकृत्यैरात्मानं भावयन् सुखेन कालं गमयति स्म । तत एकदा तत्र गुणशीलकचैत्ये श्रीवीरस्वामी समवमृतस्तदा स्वाम्यागमनवात्ता निशम्य स मद्दुको हृष्टः सन् स्वामिवंदनाथ गच्छन्नगराद्वहिनिःसृत्य यावत्तेषामन्ययथिकानां नातिदूरं नातिसमीपं चागतस्तावत्तेऽन्ययूथिकास्तं गच्छंतं विलोक्य सर्वेऽप्येकत्रीभूय तत्पाद्यं गत्वैवं प्रोचुः-'भो मद्दुक! तव धर्माचार्यो यत्पंचास्तिकायादिकं प्ररूपयति तत्कथं ज्ञायते ?।' तदा मद्दुकस्तानुवाच-'यदि धर्मास्तिकायादिभिः स्वकीय कार्य क्रियते तदा तेन कार्येण तान् जानीमो, धृमेन वह्निमिव । यदि तैः कार्य न क्रियते तदा न जानीमः,
PAAAAAAE
Jain Education inte
For Private & Personal Use Only
RTwww.jainelibrary.org