SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ जिनलाभवरि विरचिते आत्म प्रबोधग्रन्थे ॥२११॥ Jain Education Intera ज्ञेयो, नवरमन्त्रार्थहेतुप्रश्नादिभिरन्यतीर्थिकस्य निरुत्तरीकरणात्स्वामिना तत्प्रशंसा कृता । ततः स कुंडकोलिकचतुर्दशवर्षानंतरं तथैव ज्येष्ठपुत्रं कुटुंबे स्थापयित्वा स्वयं पोषधशालायां स्थितः सन् एकादश प्रतिमा आराध्य तथैव सौधर्मे कल्पेऽरुणध्वजविमाने देवो जातो महाविदेहे च सेत्स्यति । इति कुंडकोलिकवृत्तांतः ॥ ६ ॥ अथ सप्तमश्राद्धवृत्तांतो यथा-पोलासपुरे नगरे सद्दालपुत्रनामा गोशालोपासकः कुंभकारो वसति स्म । तस्याग्निमित्रा नाम भार्या । तथा त्रिकोटिसौवर्णिकानि द्रव्यं तत्रैकैका कोटिर्निधानादिप्रयुक्ता आसीत्, तथा दशसहस्र गोनिष्प| नमेकं गोकुलमभवत् । पुनस्तस्य पंच शतानि कुंभकारापणा आसन् । एकदा स सद्दालपुत्रो मध्यरात्रसमयेऽशोकवाटिकायामागत्य गोशालकोक्तं धर्मं ध्यायन् तस्थौ । तदा तत्रैको देवः प्रादुर्भूय तं प्रत्येवमुवाच-' भो ! देवा नुप्रिय ! प्रातरत्र महामाहनः समुत्पन्नज्ञानदर्शन घरस्त्रिकालज्ञोऽर्हन् समेष्यति, तस्य त्वया वंदननमस्कारादिप्रतिपत्तिः कर्त्तव्या ' । एवं द्वित्रिवारमुक्त्वा स देवः स्वस्थानं ययौ । तदा सहालपुत्रस्तद्देववचनं श्रुत्वा चिंतयामास - ' एवंविधगुणसंपन्नस्तु मम धर्माचार्यो गोशालोऽस्ति स निश्चितं प्रातरत्र समेष्यति, तदाऽहं तद्वंऽदनादि करिष्यामीति ' । अथ प्रभाते श्रीवीरस्वामी तत्र समवसृतस्तदा स सद्दालपुत्रः श्रीवीरस्वाम्यागमनं श्रुत्वा बहुजनपरिवृतस्तत्र गत्वा विधिना स्वामिनं वंदित्वोचितस्थाने उपविष्टः स्वामिनाऽपि देशनां दत्त्वा सद्दालपुत्रमामंत्रय रात्रिसंभवं सर्वमपि वृत्तांतं निगद्य पृष्टं भोः सद्दालपुत्र ! सत्योऽयमर्थः ? ' । तेनोक्तं- ' स्वामिन्नित्थमेव ' । पुनः स्वामिनोक्तं- ' भोः सहालपुत्र ! तेन देवेन गोशालमाश्रित्य नैवमुक्तमिति' । ततस्तेन चिंतितं- 'प्रागुक्तगुणसंपन्न For Private & Personal Use Only द्वितीय प्रकाशे देशविरति खरूपं ॥२११॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy