SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 277 यथा स्वदेह विण - व्ययेनापि प्रयत्यते । राजार्थे तदात्मार्थे यत्यते किं न धीमता ? ॥ २ ॥" इत्यादिवैराग्यजावनापरः पञ्चमुष्टिभिः केशोत्पाटनं व्यधात्। रत्नकम्बलदशानां रजोहरणं चकार । ततः स सदसि गत्वा पार्थिवमवक्— 'मयेदमालोचितं, धर्मलाभस्तेऽस्तु' इत्युक्त्वा राजसदनान्निःससार । 'किमेष कपटं कृत्वा वेश्यागृहं पुनर्यायात् ? इत्यप्रत्ययतः दमापो गवाक्षेण निरैत । स तु कुचित कुणपडुर्गन्धास्पदे गछन् घाणमिव तगृहानिमुखं वक्रममोटयत् । तथा ब्रजन्तं तं वीक्ष्य स नूधवो दध्यौ - "नगवान् वीतरागोऽसौ, धिग्मेऽस्मिन् कुचिन्तितम्" इत्यात्मानं निनिन्द | स्थूलन - प्रोऽपि श्री संजू तिविजयान्तिके सामायिकोच्चारपूर्वकं दीक्षां प्रत्यपद्यत । श्री को राज्ञा पितृपदे स्थापितः । तत स श्रीयको नित्यं कोशागृहे याति । सा तदनुजं दृष्ट्वा स्थूल विरहदुःखेनारोदीत्, ततस्तां श्रीयकोऽवोचत् - "श्रायें ! किं कुर्महे वयम् ? असौ पापो वररुचिर्ममं तातमघातयत्" । साऽऽह - " तर्हि कश्चिचैरनिर्यातनोपायं विचारय" । सोऽवक्- “यदि चायं मद्य पिबेत्तदा वैरशुद्धिर्भवेत्, अतस्त्वममुं मद्यपं कारय । साऽपि तदाक्यं स्वीचकार । ततः सा केन चि - | दुपायेन तं मद्यपं चक्रे । कोशाऽपि तद्वृत्तान्तं श्रीयकाय न्यवेदयत् । सोऽपि तुष्टो नूपपर्षद्यगात्, तदा नृपः शकटाखगुणान् सस्मार, तदा श्रीयकः प्राह - "स्वामिन्! वयं किं कुर्महे ? सुरापायी वररुचिः सर्वमिदं पापं व्यधात्” । नृपोऽपृच्छत् -' किमेष मद्यं पिबति ?' । सोऽवक्-'स्वामिन्! दर्शयिष्यामि' । For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy