________________
उपदेशप्रा.
तंज.१०
॥२०॥
COMAK
-CLAS
तामेव तथैव पृष्टं सोऽपि शीघं प्राह-"स्वामिन् ! सर्वेषां वीजं जलं, सर्वरसं लवणं, कृतज्ञः श्वा, कृतघ्नश्च जामाता । यतः
द्रुतमानय पानीयं पानीयं पङ्कजानने । पानीयेन विना सर्व सद्यः शुष्यति दग्धवत् ॥ १॥ प्राथम्यमुदधिष्वासीत्सत्यं ते लवणोदधे । यअसेन विना सर्वरसो न स्वादमर्हति ॥२॥
अशनमात्रकृतइतया गुरो-न पिशुनोऽपि शुनो लजते तुलाम् ।
अपि बहूपकृते सखिता खले, न खलु खेलति खे लतिका यथा ॥३॥ | दाणं रुष्टः कणं तुष्टो नानापूजांच वाञ्चति। कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः॥४॥"
इति सम्यक्प्रश्नार्थ प्राप्य तेषां पुरः साहिः पुनः पुनः श्लाघां चकार । पुनरप्येकदा तैः साहिनृपपुर। इति पिशुनत्वं लघुकसंवन्धि कृतं-"स्वामिन् ! अजनं कापुरुषहिंमुलघुकेन सार्ध मन्त्रकरणं न योग्य, युप्मदीयराज्ये वहव एतादृशा वाक्पटवः सन्ति । ततः साहिना तेषामिति प्रश्नचतुष्टयं पृष्टं-"विश्वे | महान् पुत्रः कस्य संबन्धी ज्ञेयः १? विश्वे महादन्ताः कस्य ? विश्वे महदरं कस्य ३ ? विश्वे महादतः को वा ४ ?" । इति श्रुत्वा ते विचार्य प्रोचुः- "स्वामिन् ! जगत्सु पातसाहिपुत्र एव महत्तरः १, महान्तो दशना उदरं च हस्तिसंवन्धि ज्ञेयं ५-३, विश्वे ददस्तु नवत्सदृशः कोऽपि नास्ति ॥” इति श्रुत्वा नृपस्तास्तिरस्कृत्य लघुकमाहूय तत्सर्व पृष्टवान् । स शीघं प्राह-"स्वामिन् ! विश्वे गोपुत्रसमो महावृक्षः कोऽपि नास्ति, यतो यः पृथ्वी जीवयति १ । तथा महादन्तश्च लाङ्गलस्य ज्ञेयः, येन नूमौ बीजान्युत्पद्यन्ते ।
॥२०॥
www.jainelibrary.org
For Private & Personal Use Only
JainEducation International 2010