________________
उपदेशप्रा.
॥ ३८ ॥
Jain Education International 2010_06
नागणे १० सुत्ती १० पवयो पजावण्या २० । एहिं कारणेहिं तित्थयरतं लहइ जीवो ॥ ३ ॥
अर्हन् नामादिचतुर्निपैः सेव्यः १ । सिद्धा निष्पन्न गुणिनः कर्ममलोज्जिता अपुनरावृत्तिगतिं गताः सर्वाणि कार्याणि धंधमात्राणि पूर्णीकृत्य निष्ठां नीत्वा यथा गृही सुखेन शेते तदिमेऽपि पुनरकर्तृभावेन संसारकार्याणि समाप्य परमसौख्यानुजवार्थ शाश्वतं पदं प्राप्तास्ते सिद्धा ध्येयाः २ । प्रवचनः सङ्घः समस्तश्रुताधारत्वेनार्थवान् चतुर्विधोऽपि ३ । गुरुराचार्यः पणवत्यधिकद्वादशशत १२९६ गुणैरलङ्कृतः ४ । स्थविरो वृषः, स च त्रिप्रकारः, यस्य षष्टिवर्षाणि श्रतिक्रान्तानि स वयःस्थविरः १, जातविंशतिवर्षदीक्षा स्थितिः स पर्याय स्थविरः २, यश्चतुर्थाङ्गसूत्रार्थज्ञः स श्रुतस्थविरः ३-५ । तत्समयवर्तिजूरिश्रुतार्थज्ञो बहुश्रुत उपाध्याय उप समीपेऽधीयते यस्मात्स उपाध्यायो वाचकः ६ । तपस्वी अनशनादिविचि त्रोग्रतपः स्थितः साधुः ७ । एतेषु सप्तसु वात्सस्यं यथाभूतगुणप्रख्यापनं जक्तिरागादिकं च ज्ञेयं । सदा ज्ञानोपयोगधारणं । सम्यक्त्वं दर्शनं । विनयः १० | आवश्यकं चारित्राई ११ । शीलवतं १२ । त्रयोदर्श क्षणलवानिधानं स्थानं, तच्च प्रतिक्षणलवं सदा वैराग्यजावेन क्रियाकरणं १३ । तपो नानाविधं १४ । त्यागः पञ्चदशं स्थानं गौतमादीनां यथाहन्नादिसमर्पणं १५ । वैयावृत्यं बालादीनां षोमशं स्थानं, तथा | चोक्तं प्रश्नव्याकरणे - " के रिसए पुए राहए वयमिएं जं से उवहिं जत्तपाणसंगदाणकुसखे अचंबा
For Private & Personal Use Only
स्तंज. १४
॥ ३८ ॥
www.jainelibrary.org