________________
Jain Education International 2010_1
॥ अथ विंशत्युत्तरशततमं व्याख्यानम् ॥ १२० ॥ थाज्ञातफलविषये गुणदोषानाह -
फलान्यज्ञात नामानि पत्रपुष्पाण्यनेकधा । गुरुसाक्ष्यात्मसौख्यार्थ त्याज्यानि वंकचूलवत् ॥ १ ॥
स्पष्टः । कचूलप्रबन्धस्त्वयम् —
पुति पुर्या विमल शोराज्ञः पुष्पचूला पुष्पचूलाख्यौ पुत्री पुत्रावभूतां । पुष्पचूलस्तु प्रकृत्योत्वालोकैर्वकचूल इत्यनिधानं कृतं । तदौत्यं महाजनादाकर्ण्य राज्ञा क्रोधेन नगरान्निःसारितो महारष्ये गतः । तस्य पत्नी स्वसापि च स्नेहेन तदनुगते । जिल्लैः स स्वपट्यां नीत्वा स्वनूपः कृतः । एकदा तत्र सिंहगुहापस्यां सूरयः प्रापुः । वर्षाकाले वसतिस्तत्पार्श्वे तैर्याचिता । वकचूलः प्राह- 'मम सीमानं यावधर्मो न वाच्यः, मौनेनात्र स्थेयं' । त ऊचुः - 'नवनिर्जीववधो न कार्यः । तेन स्वीकृतं । चतुर्मास्यन्ते विहारसमयस्तस्मै ज्ञापितः । यतः—
समणाणं सजणाएं नमरकुलाणं च गोकुलाएं च । अनिश्रा वसई सारईयाणं च मेहाणं ॥ १ ॥ ततो गङ्गस्तैः सह कंचित्प्रदेशं गत्वा स्थितः । सूरिस्तमाहू - "हे न त्वममुमनिग्रहं गृहाण, अज्ञातफलानि नाद्यानि सप्ताष्टपदान्यपसृत्य घातो देयः राज्ञः स्त्री न सेव्या, ध्वांक्षमांसं न खाद्यं इति" । | सुकरत्वात्तेनात्तं व्रतैकदेशत्वं, गुरून्नत्वा गृहमगमत् । एकदा स सार्थ चौरैः सह हृत्वाऽरण्ये प्रविष्टः । १ गुरुः साक्षी यस्मिन् कर्मणि यथा स्यात्तथेति क्रियाविशेषणम्.
For Private & Personal Use Only
www.jainelibrary.org