________________
खंच. ६
॥ १७८ ॥
नोक्तं - "युष्मा निर्बहुजिः किं प्रयोजनम् १ । यतः -
कृशोऽपि सिंहो न समो गजेन्द्रः, सत्वं प्रधानं न च मांसराशिः । वृन्दानि वने गजानां सिंहस्य नादेन मदं त्यजन्ति ॥ १ ॥”
इत्युक्त्वा तेऽपि नृपं विना भूमौ पातिताः । ततो नगरस्योपरि व्यनि शिलां विकृच्योंपलवमकरोत् । ततो नृपमंज्यादयोऽञ्जलिं विधाय प्रोचुः - 'श्रस्मदागः क्षम्यताम्' । देवेनोकं -- "अस्मधर्ममुरो जिनदत्तस्य निरपराधस्य कथं बाधा कृता ? अस्य महिम्ना मयेयं सुरद्धिः प्राप्ता" । इत्युक्त्वा प्रोक्तः सर्वोऽवदातः । नृपेण भणितम्
"प्रथमवयसि पीतं तोयमल्पं स्मरन्तः, शिरसि निहितजारा नालिकेरा नराणाम् । उदकममृतकल्पं दद्युराजीवितान्तं न हि कृतमुपकारं साधवो विस्मरन्ति ॥ १ ॥”
ततः प्रसन्नेन देवेन निरूपितं - "यूयं सर्वे मद्गुरोः पादौ नत्वा प्रणमत । तन्मुखेन नमस्कारमंत्रं चौर्यादित्रतं च | गृह्णीध्वं " सर्वेऽपि तथा चक्रुः । जिनदत्तो महामहेन स्वगृह श्राजगाम । खोका श्रपि परस्परं प्रत्यक्षं जैनधर्मे प्रशशंसुः । प्रोतोऽपि शूल्यामयसश्च लोहखुरोऽल्पकालं नियमं दधत् यः । विमाने जिनदत्तसंगादहो सुपर्वर्द्धिमलंचकार ॥ १ ॥
॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ पष्ठस्तं त्र्यशीतितमं व्याख्यानम् ॥ ८३ ॥
Jain Education Interna1010_05
For Private & Personal Use Only
व्याख्यान ०३
296 H
www.jainelibrary.org