SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 950 ROCE% ACANCCUSA कार्य पृष्टं, तदा ते प्रादुः-'प्रतिवर्ष घासप्ततिलक्षाव्यायो जवति' । इति ज्ञात्वा नृपो रुदतीव्यं मुमोच । पाटितं च | पट्टकपत्रं । इति चौर्यवृत्तिमृतस्वपरिहारे पटहो दापितोऽष्टादशसु देशेषु । एकदा सजायां चत्वारो महाजनमहत्तरा एत्य नृपं नत्वोपविष्टाः । विलक्षास्तान् दृष्ट्वा राजाह-'को हेतुरद्य सला६गमे ? किमिदं वैखयं ! किं कोऽपि पराजवः ?' । तदनु महाजनाः प्राहुः| "कुतः प्रजानां राजेन्द्र ! त्वयि शासति मेदिनीम् । पराजवोऽसमाधिर्वा जायते जनवत्सल ॥१॥ | परमत्रत्यो गुर्जरपुरवणिग्मूर्धन्यः कुबेरश्रेष्ठी समुझे समागछन् कथाशेषतां प्राप्तः इति तत्परिलदो निःपुत्र प्राक्रन्दन्नस्ति । तगृहप्रव्यं राजा यद्यात्मसात्कुरुते तदा तस्योर्ध्वदेहिकं क्रियते । तचनमगणितमस्ति” । ततो राजाह-"जो महाजनाः! मया मृतस्वग्रहणं प्रत्याख्यातं, परं तस्य गृहसारं विलोकयामः" । इत्युक्त्वा महत्तरादिपरिवृतो राजा तद्गृहमाजगाम । तदनु सौवर्णकलशश्रेणि क्वणत्किंकिणीवाणवाचालितदिग्मंडलं कोटिध्वजावलिहस्तिशालातुरंगशालाविराजितं कुबेरगृहं | विलोक्य महत्तरदर्शितं स्फटिकशिलानिर्मितं चैत्यालयं गतः। तत्र चैत्ये मरकतमणिमयं श्रीनेमिजिनं नत्वा रात्नसौ. वर्णकलशस्थालारात्रिकमंगलदीपादि देवपूजोपकरणादि वीदय कुबेरदत्तत्रतटिप्पनी वाचितवान् । तत्र परिगृहप्रमाणे स्वर्णस्य षट् कोटयस्तारस्याष्टतुलाशतानि महार्हा दश मणयश्च । कुंलखारीसहस्र के प्रत्येकं स्नेहधान्ययोः । पञ्चायुतानि वाहानां सहस्रमपि हस्तिनाम् ॥ १॥ Jain Education Internal 1010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy