SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat पंचैव य खीराइं चत्तारि दहीण सप्पि नवणीता । चारि यतिलाई दो वियडे फाणिए दुन्नि || १६०० ॥ पञ्च क्षीराण्यजोष्ट्रीगोमहिष्येडिकानाम्, तथा चत्वारि दधीनि उष्ट्रीणां दघ्नोऽभावात्, तथा चत्वारि सर्पषि घृतानि, चत्वारि नवनीतानि । चत्वारि तैलानि तिलातसीलट्टासर्षपाणां विकृतयः, शेषाण्यविकृतयः लेवाडाणि तु स्युः । विकटे मधे द्वे काष्टजं पिष्टजं च । फाणितौ गुडौ द्वौ द्रवगुडः पिण्डगुडश्च ॥ १६०० ॥ महुपुग्गलाई तिन्नि चलचलओगाहिमं तु जं पक्कं । एसिं संस वुच्छामि अहाणुपुवी ॥ १६०१ ॥ मधूनि त्रीणि कौन्तिकं भ्रमरं माक्षिकं च । त्रीणि पुद्गलानि मांसानि जलचराणां स्थलगानां खगानां च । यच्चलचलेतिशब्देन पक्कं सफेनं अवगाहेन स्नेहबोलेन निर्वृत्तं अवगाहिमं दशमा विकृतिः । तत्राद्यद्वितीय तृतीय वारावगाहिमं विकृतिः । सेसाणि अ जोगवाहीणं कप्पन्ति । जड़ नजइ यथा एगेण चैव पूयएण तवगो भरिओ वीयं चैव कप्पड़ निविगइयपञ्चक्खाणइत्तगस्स लेवाडं तु होइ । एतेनेति स्पष्टं ज्ञायते पूपकाद्यप्यवगाहिमविकृतिरेव । एतेषां विकृतिभेदानां संसृष्टं गृहस्थसंसृष्टाकारं आनुपूर्व्या वक्ष्यामि ॥। १६०१ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy