SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ बावश्यकनियुक्तिदीपिका। ॥२७॥ CONCE ओगे १३ ।। (सूत्रम्) श्राद्धधर्मपंचाणुव्रतानि त्रीणि गुणव्रतानि यावत्कथिकानि सकृद् गृहीत्वा यावजीवं पाल्यानि । शिक्षापदव्रतानीत्वराणि, शिक्षाs- निगमनम् । भ्यासस्तस्याः पदानि स्थानानि तान्येव व्रतानि । तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये । अत्र | सामायिकमपि देशावकाशिकवत्कालद्वयमेव कार्य इति वृद्धाः । पोषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयौ । अत्र प्रतिनियतशब्देन पर्वदिने इति वृद्धाम्नायः। यत्सुबाहुनाऽष्टमेन पोषधादि कृतं तत्र द्वादशं पौषधव्रतं किं न घटते ? तस्य पर्वदिनानुष्ठानत्वात् श्रीविजयादिनां पोषधदृष्टान्तेन यद्वा त्रयोदश्यामुपवासं कृत्वाऽन्ते चतुर्दशीपञ्चदश्योः पोषधद्वयमिति, यद्वा नियमविशेषे वाऽष्टमतपसि पोषधशब्दः । अत्र यद्वचनविरुद्धं स्यात्तच्छुतज्ञानं क्षमयामि । 'एयस्स०' एतस्य द्वादशविधस्य धर्मस्य मूलवस्तु मूलभूतं सम्यक्त्वं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यस्वरूपम् । तन्निर्सेगण वाs-IX धिगमेन वा स्यात्तत्र निसर्गः स्वभावोऽधिगमो गुरोः शास्त्राद्वा यथार्थवस्तुज्ञानम् । यद्यपि मुख्यतः सम्यक्त्वं क्षयोपशमाजायते तथापि निसर्गाधिगमौ सहकारिणौ भवत एव । इदं च शङ्कादिपश्चातीचाररहितं पाल्यमिति शेषः। तथाणुव्रतानि गुणवतानि निरतिचाराणि पाल्यानि । अभिग्रहा लोचकृतघृतदानाद्याः (शु)द्धा भङ्गायतिचाररहिताः पाल्याः, अन्ये च प्रतिमाद्या विशेषण करणयोगाः पुण्यव्यापारा आदिशब्दादनित्यत्वाद्या भावनाः पाल्याः । तथाऽपश्चिममारणान्तिकी संलेखनाजोषणाराधनातिचाररहिता सम्यक पाल्या । तत्र पश्चिमैवापश्चिमा मरणमेवान्तो मरणान्तस्तत्र भवा मारणान्तिकी । संलिख्यन्ते कशीक्रिया | न्तेऽनया देहकषायादीनि [इति ] संलेखना तपोविशेषरूपा तस्या जोषणं सेवनं तस्याराधनाऽखण्डपालनं चः समुच्चये । एत्थ ४ ॥२७॥ 6453A%A6056452RE % %SCHOOL Jain Education Internat For Private & Personal use only ww.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy