________________
Jain Education Internati
दिवा रात्रौ वा प्रमाणेन वा कुर्वे इति देशतः । अहोरात्रं ब्रह्म पालयामीति सर्वतः ३ । अनुकं सावद्यव्यापारं न करिष्यामीति देशतः, सर्व न कुर्वे इति सर्वतोऽव्यापारपोपधः ४ । अत्र देशतः पोषधशब्दो देशावका शिकवाची घटते नत्वतीचारप्रतिबद्धपोषधव्रतवाची, यतः चूर्णौ ' तं सत्तिओ करिशा तवो य जो वण्णिओ समणधम्मे । देसावगासिएण व जुत्तो सामाइएणं वा' ॥ १ ॥ तपश्च एवार्थे द्वादशधा श्रमणधर्मे यद्वर्णितं तच्छक्तितः कुर्यात् देशावकाशिकेन युक्तो देशपोषधवान् तपः कुर्यात्, सामायिकेन वा युक्तः सर्वपोषधवान् तपः कुर्यात् । परं देशावका शिकवान् श्राद्धः सदा स्यात् तेन देशपोषधोऽस्त्येव परं स पोषधशब्दो रूढिं न लभते यथाऽविरतानां सामायिकं उक्तं चेत्थं 'सर्व्वसु काल पत्थो (त्थे णिमए तवो जोगो । अट्ठमिपन्नरसीसु च, नियमेण हविज पोसहिओ ' ॥ १ ॥ सर्वेषु कालपर्वसु प्रतिपदादिषु जिनमते तपो योगः प्रशस्तः, परमष्टमीपश्चदश्योर्नियमात्पोषधिको भवेत् । अत्र सर्वपोषध एव घटतेऽन्यथा विशेषाभिधानं कथम् ? तपसि देशपोषधस्यायातत्वादेव तथा यो देशपोषधं करोति स सामायिकं करोति न वा करोति । यः सर्वोषधं करोति स नियमात्करोति । अत्र सामायिकं करोति न वा करोतीतिशब्देन पोषधसम्बद्धं सामायिकं न घटते किन्त्वावश्यककाले करोति न वा । अथ पोषधविधि:-' तं कर्हि ? चेहयघरे साहूमूले घरे वा पोसहसालाए वा उम्मुकमणिसुबन्नो पढन्तो पुत्थयं वाएइ, धम्मज्झाणं झाएइ, जहा एए साहुगुणा अहं असमत्यो मन्दभग्गो धारिउं' इत्यादि । एवं पोषधो यो वर्णितः स सर्वपोषध एव घटते । तत एव वृत्तिकदाह- इदमपि शिक्षापदवतं निरतिचारं पाल्यम् । 'पोसहो' पोषधोपवासस्य पोपधावस्थानस्य पञ्चातीचाराः । अप्रत्युपेक्षित दुष्प्रत्युपेक्षितशय्या संस्तारौ शय्या फलकाद्यास्तीर्यते शयनाय पोषधिना इति,
५
For Private & Personal Use Only
www.jainelibrary.org