SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Jain Education Internati कृद्भ्यां च इत्थमेव व्याख्यातं, तथाहि 'गिहिणो वि सङ्घवजं दुविहं तिविहेण छिन्नकालं तं । कायवमाह स को दोसो ? भन्नए णुमई' | १ | भाष्यं । गृहस्थेनापि सता तत्सामायिकं छिन्नकालं द्विघटिकाकालमानोपेतं सर्वव सर्वशब्दोच्चारणरहित द्विविधं त्रिविधेन कर्त्तव्यमेवेति वृत्तिः । जइ चेइआई अत्थि तो पढमं वन्दइ । अत्र प्रथममिति मणनात् सामायिके कृते पश्चादपि चैत्यवन्दना कार्येति । अन्यथा जड़ चेइआइ अत्थि तो वन्दइ इत्युक्तमेव स्यात् । तथा चैतत्सामायिकं सर्वकालमपि स्यात् । मुहूर्त्ताधिकं च न स्यात्तदा कथं सामायिकं कृत्वा साधुपार्श्व याति । स्तोककालात् कृत्वा पारयित्वा च किं न याति तेनैवं ज्ञायते प्रातः सामेकैकमेव बहुकालं यावत्सामायिकं स्यात्ततश्च गुरुसाक्ष्युच्चरति । चेत्परम्परागतः श्राद्धावश्यकविधिरेवमभविष्यत्तदा ज्ञायते | सिद्धान्तोकोऽयमिति । स्यहरणं निसिअं वा मग्गह, भूप्रमार्जनाय मयूरपिच्छादिमयं दंडासनाख्यं रजोहरणं निषद्यां वा याचते इति । अस्य युक्तिस्तु प्राक् मुखवस्त्रिकाधिकारे सर्व्वा समर्थितास्ति । तथा पच्छा आलोइत्ता बन्दर चि, आगमनं आलोच्य द्वादशावर्त्तवन्दनं ददाति । वन्दतेशब्देन आगमे द्वादशावर्त्तवन्दनमुच्यते इति प्राग् दर्शितमस्ति । 'सामाइ आवस्यं वा करेड़ चि' इह तावत् 'सवं चउसु ठाणेसु नियमा कायवमित्यादिना' आवश्यकविधानस्थानसंग्रहं कृत्वा ततस्तस्यैव तेषु चतुर्ष्वपि स्थानेषु विधीयमानस्य 'आवस्सयं करिंतो ची' त्यादिना 'एसा विही सामाइयस्स' एतत्पर्यन्तेन ग्रन्थेन समग्रोऽपि विधिरुक्तः । तत्रापि जड़ साधुसमासे करेह इत्यादिना पुच्छ पढइ इत्यन्तेन साधुमूले | विधीयमानस्यामूलचूलं विधिरुक्तः, ततस्तस्यैव साध्यभावे चैत्यगृहे विधीयमानस्य एवं चेइएस वि' इत्यन्तेन पूर्वप्रदर्शित For Private & Personal Use Only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy