________________
सिद्धा द्वावपि श्राद्धौ जातौ ३ । यद्वा विदां साधूनां जुगुप्सा विजुगुप्सा विदुगुंछा, साधवोऽस्नानात प्रस्वेदजलक्लिन्ना मलिनत्वाद् दुर्गन्धाः स्युः। तत्र एकः श्राद्धः प्रत्यन्ते वसति । तत्पुत्रीविवाहे साधूनागतान् पित्रुक्त्या प्रतिलम्भयन्ती मलगन्धं ज्ञात्वाऽर्हता भव्यो धर्म उक्तः, परं शुद्धजलेन स्नाने को दोषः ? इति दध्यौ । तच्चानालोच्य मृत्वा राजगृहे वेश्यासुता जाता दुर्गन्धत्वात् त्यक्ता श्रेणिकेन दृष्टेत्यादि पृच्छा । सा तदैव तत्कर्म वेदित्वा गन्धहीना आभीर्या वर्द्धिता यावत् १२ वर्षाणि श्रेणिकपत्नी जाता । पृथ्यारोहेण श्रेणिकेनोपालक्षि ततो दीक्षिता । अन्ये आहुः वणिक्कुले आयाता परं गर्भस्थायां अरतिहेतत्वात्पातनानि कृतानि । ततो जाता त्यक्ता । अष्टवर्षाणि राज्ञीत्वं । परपाखण्डप्रशंसायां चन्द्रगुप्तेन भिक्षवृत्ती हृतायां भिक्षवस्तस्य धर्म जगदुः, राजाऽतुष्यत् चाणिक्यं पश्यन् तदप्रशंसातो न दत्ते । भार्याप्रेरितश्चाणाक्यः सुभाषितमिति जगौ। राज्ञा साऽन्या च वृत्तिर्ददे । द्वितीयेऽति चाणिक्येन राजोक्तः किं त्वया दत्तं? सोऽवक युष्मत्प्रशंसातः । सोऽवक (न)मयेत्युक्तं । अहो सर्वारम्भिणो रञ्जनाय कुर्युरिति । ततो राजाऽस्थात् ततो न शंस्याः। संस्तवे प्रागुक्तः सौराष्ट्र श्राद्ध एव ५। एभिरतीचारै रहितः सम्यक्त्वोऽणुव्रताधर्हः स्यात्तदाह ॥
थूलगपाणाइवायं समणोवासओ पञ्चक्खाइ, से पाणाइवाए दुविहे पन्नत्ते, तंजहा संकप्पओ अ आरंभओ अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पञ्चक्खाइ, नो आरंभओ, थूलगपाणाइवाय. वेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तंजहा-बंधे वहे छविच्छेए अइभारे भत्तपाणवुच्छेए १ । (सूत्रम् )॥
CROCESCROCRACCORR
ECEN
Jain Education Internet
For Private & Personal Use Only
www.jainelibrary.org