________________
पचारं द्वितीयक्षामणकरत्रेण गुरोः साधवः कुर्युः, यथा ' इच्छामि खमासमणो पियं च मे० '
मासमणो पिअं च मे जं भे हट्ठाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं | • सुबयाणं सायरियउवज्झायाणं नाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेण all भे दिवसो पोसहो पक्खो वइकतो अन्नो य भे कल्लाणेणं पज्जुवट्ठिओ सिरसा मणसा मत्थएण | वंदामि ॥ तुब्भहिं समं ॥
हे क्षमाश्रमण ! श्राम्यतीति श्रमणः क्षमाप्रधानः श्रमणः क्षमाश्रमणस्तस्यावानं । इच्छामि अभिलषामि, एतत् प्रियं च मे यद्धे भवतां हृष्टानां समर्थानां, तुष्टानां सन्तोषवतां, अल्पातंकानां अरोगानां, अभग्नयोगानां योगः स्वाध्यायावश्यकादिव्यापारः, सुशीलाना, सुव्रतानां शीलान्युत्तरगुणाः व्रतानि मूलगुणाः । साचार्योपाध्यायानां अनुयोगादियुतानां । ज्ञानेन दर्शनेन चारित्रेण तपसात्मानं भावयतां ज्ञानाचारादीन् कुर्वतां बहुशुमेन ईषदनकल्याणेन भवे पूर्णशुभस्याभावात् । मे भगवन् ! दिवसः पौषधो धर्मपौषधः पर्वरूपः पक्षोऽर्द्धमासरूपो व्यतिकान्तः । अन्यश्च पक्षः कल्याणेन पर्युपस्थितः प्रक्रान्तः 'तिकडु' वृत्तिचूयॉर्न, तथाऽहं युष्मान् शिरसा कायेन मनसा मस्तकेन वन्दे इति वाचा नमामि मस्तकेन वन्दे । इतिशब्दश्च नमतो ज्ञेयः, यथा गवां गोपालः स्वामी । अत्र गुरुवाक् 'तुम्भेहिं समं' साधुभिः समं जातमिति । पुनः 'इच्छामि खमासमणो'
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org