SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ।। ॥१६५॥ Jain Education Inter जीवाद्वियोजनं तं प्रत्याख्यामि त्यजामि । ' से ' यथा सूक्ष्मं लघु बादरं स्थूलं वा, निश्वये त्रसं वा स्थावरं वा, जीवं आश्रित्य सूक्ष्मनसः कुन्ध्वादिः स्थावरो वनस्पत्यादिः, बादरस्त्रसो गवादिः स्थावरः पृथिव्यादिः, प्राणान् इन्द्रियादीन् स्वयं नैवातिपातये न हन्मि नैवान्यैः प्राणानतिपातये घातये । प्राणानतिपातयतो नतोऽपिशब्दादन्यान् घातयतो हिंसायां अनुज्ञापयतोऽन्यान्न समनुजानेऽनुज्ञां न ददे । यावज्जीवया आयुष्कावधिना परतोऽचिन्तनात्, त्रिविधं त्रिप्रकारं प्राणातिपातं करोति कारयतीत्यादिरूपं त्रिविधेन मनसा वाचेत्यादिकरणेन विरमामि यथा 'मणेणं०' मनसा हिंसां न कुर्वे वाचा न कुर्वे कायेन न कुर्वे । तथा मनसा न कारयामि वाचा न कारयामि कायेन न कारयामि । मनसाऽन्यं हिंसां कुर्वन्तं अपिशब्दादन्यं कारयन्तं अनुजानन्तमपि न समनुजानामि । एवं वाचा, एवं कायेन । तत्र प्राक् 'नेव सयं पाणे अड़वाएजा इत्याद्युक्तेऽपि यत् मणेणं० न करोमीत्यादिरु (द्यु) क्तिस्तच्चित्तशुद्धयै करणपूर्वक योग निषेधाख्यानं व्यक्त्या । हे भदंत ! तस्यातीतकालकृतप्राणातिपातस्य प्रतिक्रमामि निवर्त्ते निन्दामि स्वसाक्षि, गर्हामि गुरोः पुरः, आत्मानं हिंसाकारिणं व्युत्सृजामि त्यजामि । अत्र यथा न करोमि ० इत्यादि हिंसाविषयं उक्तं तथाऽग्रे शेषवतेषु स्वस्वदोषनिषेधो वाच्यः, यथा मृषावादे न करेमि न कारवेमि इत्यादौ मृषावादं मनसा न करोमि वाचा न करोमि कायेन न करोमीत्यादि स्वयं ज्ञेयम् । 'से पाणाइवाए० वोसिरामि' स प्राणातिपातचतुर्विधः प्रज्ञप्तः सर्वजिनैरुक्तः, तद्यथा - तच्चतुर्विधत्वं यथा स्यात्तथाह - द्रव्यतः क्षेत्रतः कालतः भावतः स्यात् । तत्र द्रव्यतः प्राणातिपातः जीवद्रव्यानाश्रित्य ज्ञेयः पसु जीवनिकायेषु स्यादिति । क्षेत्रतः सर्वलोकरूपे चतुर्दशरज्जुमाने हिंसा स्यात्, यतो जन्तुः सर्वत्रावतरन् जन्तून् हन्ति सर्वलोके च जीवाः सन्ति । कालतो दिवा रात्रौ वा । भावतो रागेण शरीरविषया For Private & Personal Use Only कायोत्सर्गाध्ययने पाक्षिक सूत्रम् ॥ | ॥१६५॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy