________________
पाजे नो करिति मनसा' इत्यादि १८००० गाथाभिः प्रत्येकं साधूनामष्टादशसहस्रगुणा ज्ञेयास्तथा पाश्चात्यनिशि प्रतिक्रमणे
'गोयरचरियाए' इति स्वप्नातिचारशुद्ध्यो, सायं वाऽनुपयुक्तेन कृते तदा पुनर्भणनं कस्याऽप्यतिचारस्मृत्यै । | खामेमि सव्व जीवे, सव्वे जीवा खमंतु मे । मेत्ती मे सव्वभूएसु, वेरं मज्झं न केणइ ॥१॥ 2 एवमहं आलोइय, निन्दिय गरहिय दुगुंछियं सम्म, तिविहेण पडिकतो, वंदामि जिणे चउवीसं।२।(सू०)
क्षमयामि सर्वजीवान् , सर्वजीवा मह्यं क्षमत, मा तेष्वप्यक्षान्तिप्रत्ययः कर्मबन्धोऽस्त्वितिकारुण्येनाह-मैत्रीभावो मम सर्वभूतेषु सर्वात्मसु, वैरं मम न केनापि । समाप्तौ स्वरूपदर्शनपूर्व मङ्गलमाह ' एवं ' एवमालोच्य गुरोरने, तथा निन्दित्वा स्वं स्वसाक्षिकं, तथा गर्हित्वाऽन्यसाक्षिक, जुगुप्सित्वा निजपूर्वकर्माणि, त्रिविधेन त्रिकरणशुद्धया प्रतिक्रान्तश्चतुर्विंशतिजिनान् वन्दे, एवं देवसिकप्रतिक्रमणमुक्तं, रात्रौ त्वस्मिन्नेव रात्रिकशब्द उच्यते।
॥ समाप्तं प्रतिक्रमणाध्ययनं ॥ अथ कायोत्सर्गाध्ययनं, यतः 'पडिकमणासुद्धाणं सोही तह काउसग्गेणं' प्रतिक्रमणाशुद्धानामतिचाराणां शोधिः कायोत्सर्गेण स्यात्तथा प्रतिक्रमणे कर्मा(मनि)दाननिषेध उक्तः 'मिच्छत्तपडिक्कमणं' इत्यायुक्तः, कायोत्सर्गे तु पूर्वकर्मणां क्षय एव स्यादिति, तथा प्रतिक्रान्तेऽशुद्ध पापवणं 'पायच्छित्तकरणेणं 'ति प्रायश्चित्तागदेन शोध्यमिति प्रायश्चित्त मेदानाह- आलो' आलोयण पडिक्कमणे, मीस विवेगे तहा विउस्सग्गे। तव छेय मूल अणवठ्ठया य पारंचिए चेव ॥१४१३॥
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org