________________
Jain Education Inte
त्यजामि, अकल्प्यमविधिं, अक्रियां नास्तिक्यं, क्रियामास्तिक्यमबोधिं तत्त्वाश्रद्धानं, बोधिं विचारममार्गं क्रोधाद्यं, मार्ग क्षमाद्यं यत्स्मरामि, यच्च न स्मरामि, यत्प्रतिक्रमामि स्मृत्या, यन्न प्रतिक्रमामि विस्मृत्या, एवं यो दैवसिकाद्यतिचारस्तस्य प्रतिक्रमामि तस्मान्निवर्तेऽहं श्रमणस्तत्राऽपि न चरकादिः किन्तु सममनाः, सं सामस्त्येन यतो नियमित इदानीं, विरतोऽतीतेष्यतोरतिचारयोर्निन्दासंवराभ्यामतः प्रतिहतमतीतं प्रत्याख्यातमेष्यं च पापं कर्म येनेदृक् संयतविरतप्रतिहतप्रत्याख्यानपापकर्मा, अनिदानो नवनिदानहीनः, दृष्टिः सम्यग्वादस्तया सम्पन्नः सकलगुणमूलरूपसम्यग्दर्शनयुक्तः । द्रव्यवन्दनपरिहारायाऽऽहमायायुग्मृषावाग्बर्जकः, इदृक् सन्नर्धतृतीयेषु द्वीपेषु, द्वयोः समुद्रयोः संहरणेन यद्वाऽर्धतृतीयेषु द्वीपसमुद्रेष्विति सिद्धान्तशैल्या जम्बूद्वीपधातकीखण्डपुष्करार्धेषु पञ्चदशसु कर्मभूमिषु यावन्तः केऽपि साधवो रजोहरणगोच्छकपतद्ग्रहधारिणः सोपधय इत्यर्थः । रजोहरणादिविकल प्रत्येकबुद्धादिसंग्रहायाऽऽह - तथा निरुपधीनपि पञ्चमहाव्रतधरानष्टादशसहस्रसंख्यानि शीलाङ्गान्युत्तरगुणांस्तान् धरन्तीति धारकास्तानक्षोभ्याचारचारित्रान् सर्वान् गच्छगतनिर्गतादिभेदान् शिरसा मनसेति कायिकमानसाभ्यां योगाभ्यां ' मत्थएण वंदामी 'ति वाचिकयोगेन वन्दे । अष्टादशसहस्रशीलाङ्गकरणगाथेयं ' जोए करणे सन्ना, इंदिय भूमाइ समणधम्मो अ । अट्ठारसहससीलंग संयमो होइ नायवो ' । १ । अयमर्थः - योगाः कृतकारितानुमतयः ३, करणानि मनोवाक्कायाः, संज्ञा आहाराद्याश्चतस्रः, इन्द्रियाणि पञ्च भूम्याद्या इति पृथ्वीकायाद्या दश, श्रमणधर्मो दशधा क्षान्त्याद्येतैः पृथक्पृथक् संयोगेऽष्टादश सहस्राः । शीलं व्रतानि तेषामङ्गान्यवयवाः शीलाङ्गानि तैः संयमः । स्थापना शीलाङ्गरथः ।
For Private & Personal Use Only
www.jainelibrary.org.