SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका || ॥ ९९ ॥ Jain Education Inter शबल: ९, प्रत्याख्याय नियमं गृहीत्वा भिक्षां भुञ्जीत यः साधुः स शबलः १०, षण्मासान्तर्गणात् स्पर्धकात् गणं स्पर्धकान्तरं संक्रमं कुर्वन् ११, मासान्तस्त्रीन् दकलेपान् कुर्वाणस्तत्र जङ्घाया अर्धे जले गाह्यमाने संघट्ट उच्यते, नाभिमात्रे जले लेपो, नाभेरुपरि जले गाह्यमाने लेपोपरिः कथ्यते, तथा मासान्तस्त्रीण्यपराधप्रच्छादनरूपाणि मायास्थानानि कुर्वन् १२, प्राणातिपातस्य सूक्ष्मप्राणातिपातस्य आकुट्टि उपेत्य करणं कुर्वन् १३, मृषावदश्च १४, अदत्तं गृह्णन्नाकुट्टयोपेत्य १५, अनन्तरहितायां सचित्तायां पृथ्व्यां स्थानं कायोत्सर्गं शय्यां स्वापं नैषेधिकीं स्थितिं वा चेतयत्यनुभवति १६, एवं सस्निग्धायां जलस्निग्धायां सरजस्कायां ' चित्तमंते 'ति सचित्तायां शिलायां सचित्तलेष्टौ स्थानं शय्यादि कुर्वन् १७ कोलाबासप्रतिष्ठायां शबलः, एतदेव व्याख्याति - कोला घुणाख्यजीवास्तेषामेव वासः स्थानं काष्ठादि तत्र प्रतिष्ठां स्थानं कुर्वन् । साण्डे सप्राणे त्रसजीवसहिते सबीज एवं यावत्सन्तानकं भवेत्, कोऽर्थः 'बीयकमणेऽग्रतो यावत् संताणा संकमणे' पदमुक्तं तावदन्तरा यत्पदमस्ति ' हरियकमणे ' इत्यादि, तैर्हरितावश्यायादिभिः सन्तानकान्तैः सहितः प्रदेशस्तत्र स्थानं शय्यां नैषेधिक वा चेतयेत् साधुः परमाकुट्टयोपेत्यकरणेन, न तु प्रमादकल्पाभ्यां शबलः स्यात् १८ आकुट्टया सचित्तान् मूलकन्दपुष्पफलबीजहरितान् भ्रुञ्जानः शबलः १९ तथैव संवत्सरस्याऽन्तोदकलेपान् दश कुर्वन् तथा वर्षान्तर्मायास्थानानि दश कुर्वन् २० आकुट्टया शीतोदकेन सचित्तोदकेन ' वग्वारिय 'त्ति गलता हस्तमात्रेण हस्तेनेत्यर्थः, दर्व्या भाजनेन च दीयमानं भक्तं पानं गृहीत्वा भुङ्क्ते, एष शबलः कर्बुर चारित्र एकविंशो ज्ञातव्यो भवति २१ । पाठान्तरं वा, 'वरि' 'निसि ' ' सचि ' वरिसंतो दस मासस्स, तिन्नि दगलेवमाइठाणाई । आउट्टिया करेंतो, वहालियादिण्णमेहणे ॥ १ ॥ For Private & Personal Use Only प्रतिक्रम णाध्ययने एकविंश तिश बलाः ॥ ॥ ९९ ॥ www.jainalibrary.org.
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy