SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥ ९५ ॥ Jain Education Inte भणिओ य ' यैरजीवैर्वस्तुभिरेजालवङ्गादिभिर्द्रव्येण वा गृहीतैरसंयमो भणितः । ' तह पुत्थदुस्सपणए तणपणए चम्मपणए य' | २ | तथा पुस्तकपञ्चके दूष्यपञ्चके तृणपञ्चके चर्मपश्चके च गृहीतेऽसंयमः स्यात् तद्वर्जने च संयमस्तत्र 'गंडी १ कच्छवि २ मुट्ठी ३, डफल ४ तहा छिवाडी य ५' । गण्डीपुस्तकः १, कच्छपीपुस्तकः २ मुष्टिपुस्तकः ३ सम्पुटकफलकः ४ छेदपाटीपुस्तकः ५ । 'एयं पुत्थयपणगं, पन्नत्तं वीयरागेहिं' । ३ । 'बाहल्लपुहतेहिं, गंडीपुत्थो य तुल्लओ दीहो' गण्डीपुस्तको बाहल्य पिण्डः पृथुत्वं विस्तारस्ताभ्यां तुल्यो दीर्घश्व स्यात् १ । ' कच्छवि अंते वणुओ, मज्झे पिहुलो मुणेयो ' । ४ । कच्छपीपुस्तक उभयोः पार्श्वयोरन्ते तनुकः सूक्ष्मो मध्ये पृथुलोऽल्पबाहुल्यश्च । 'चतुरंगुलदीहो वा, वट्टागिइ मुट्ठिपुत्थओ अहवा | चरंगुलदीहच्चिय, चउरंसो होइ विभेओ' ||५|| मुष्टिपुस्तकश्चतुरङ्गुलमानो दीर्घो वा वृत्ताकृतिर्वृत्ताकारोऽथवा चतुरङ्गुलदीर्घ एव चतुरस्रवतुष्कोणो विज्ञेयो भवति ३ । ' संपुडगो दुगमाई फलगा' द्व्यादयो द्वौ त्रय इत्यादयः फलका यत्र स्युः स सम्पुटपुस्तकः ४ । 'वुच्छं छिवाडि इत्ताहे । तणुपत्तूसियरूवो होइ छिवाही बुहा बिंति ' ॥ ६ ॥ इदानीं छेदपाटीपुस्तकं वक्ष्यते, तनुपत्रैः कुशैः पत्रैः स्तोकैः पत्रैर्वा उच्छ्रितरूपच्छेदपाटी भवति । बुधाः सर्वज्ञा ब्रुवन्ति । अथवा ' दीहो वा हस्सो वा, जो पिहुलो होइ अप्पबाहुल्लो । तं मुणिय समयसारा छिवाडिपोत्थं भणतीह ' । ७ । दीर्घो वा इस्वो वा यः पृथुलो विस्तृतोऽल्पबाहुल्यो भवति तं ज्ञातसमयसारा ज्ञातसिद्धान्ततत्त्वा हु निश्चितं छिवाडिपुस्तकं भणन्ति ५ । अधुनादृश्यमान पुस्तका एष्वेव पुस्तकेष्वन्तर्भवन्ति । उत्सर्गेण यतीनां पुस्तका अकल्प्या यतः - 'जइ तेसिं जीवाणं, तत्थ गयाणं तु सोणियं हुआ ' । यदि तेषां कुन्वादीनां जीवानां तत्र पुस्तके गतानां स्थितानां देहे शोणितं स्यात् । ' पीलिजंते धणियं, गलिज तं अक्खरे For Private & Personal Use Only प्रतिक्रमणाध्ययने सप्तदश विधो असंयमः ॥ ॥ ९५ ॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy