SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ निन्दानिक्षेपोदाहरणानि ।। मोटिताविति । भावप्रतिक्रमणं सम्यगदृष्टी, तदपयुक्तो मिथ्यादुःकृतोपयुक्तः । तत्र मृगावत्युदाहरणं:-कौशाम्ब्यां श्री वीरसमवसृतौ सविमाने चन्द्रसूर्यागमे चेटकराजसुता मृगावती साध्वी व्याक्षिप्तचित्ता वेलामजानन्ती साध्वीषु सर्वास्वपि गतासु स्थिता, चन्द्रार्कगमनेन तमसि जाते उपाश्रयमायाताऽऽलोचयन्त्यार्यचन्दनया ताडिता सम्यक मिथ्यादुःकृतं ददती पादयोः पतिता केवलं प्राप ॥ १०५५ ॥ अथ 'निन्दामी 'ति 'सच' सचरित्तपच्छयावो, निंदा तीए चउक्कनिक्खेवो । दवे चित्तयरसुआ, भावेसु बहू उदाहरणा ॥१०५६॥ सचारित्रस्य सत्त्वस्य पश्चात्तापः-स्वप्रत्यक्षं जुगुप्सा निन्दा, तस्य नामादिश्चतुष्को निक्षेपः । द्रव्ये चित्रकरदारिकासिंहरथाख्यस्य नगातिख्यातिप्रसिद्धस्य प्रिया कनकमालाख्या, प्राग्भवे तस्यैव जितशत्रुनामनृपस्य कनकमञ्जरीनाम्ना राज्ञोऽभीष्टाऽपि विजने स्ववेषं परिधाय सदा स्वं निनिन्द । भावे बहूदाहरणानि, तानि च योगसङ्ग्रहे वक्ष्यन्ते । निन्दालक्षणं चेदं-'हा ! दुट्ट कयं हा ! दुट्ठ कारियं दव अणुमयं हत्ति । अंतो अंतो डज्झइ पच्छातावण वेवंतो।१।' अन्तः अन्तः मध्ये मध्ये दह्यते पश्चातापेन वेपमानः ॥ १०५६ ॥ 'गर गरहावि तहाजाईअमेव नवरं परप्पगासणया । दवमि मरुअनायं, भावे साहू उदाहरणम् ॥१०५७॥ गर्दापि तथाजातीयैव निन्दाजातीयैव, नवरमयं भेदः, परप्रकाशनया गर्दा स्यात । द्रव्यगर्दायां मरुकस्य ज्ञातंदृष्टान्तः, यथैको बटुक उपाध्यायमूचे-अहं स्वप्ने स्नुषया समं उषित इति । 'भावे साहू उदाहरणं 'ति भावेऽप्रमत्तः साधु Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy