SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ सामायिकस्य त्रिकालिकता। सामायिक समितिगुप्तिभिः पालितामिः स्यात् । तत्रेर्यादिकाः समितयस्ताश्च प्रवीचाररूपाः, प्रवीचारश्चारित्रे प्रवृत्तिरिति । गुप्तयस्तु प्रवीचाराप्रवीचाररूपाः शुभप्रवृत्त्यशुभाऽप्रवृत्तिलक्षणा मनोगुप्त्यादयः । अन्ये त्वाहुः 'अष्टौ प्रवचनमातरः सामा- यिकसूत्रेण सहगृहीताः-यथा 'करेमि भंते ! सामाइयं 'ति समितय आताः, 'सव्वं सावज्जं जोगं पञ्चरकामी 'ति गुप्तयः । समितयः सत्क्रियाप्रवृत्ती, गुप्तयस्त्वसत्क्रियानिग्रहे । अमृषु सामायिकं १४ पूर्वाणि च मातानि । इह 'सीयालं भंगसयं तिविहं तिविहेणं' त्युक्तितः कालत्रयसावद्ययोगसंवरणं तथा योगत्रयं करणत्रयं च निरूपितं । तेन च सर्व सामायिकसूत्रं स्पष्टं, यथा ' करेमि भंते ! सामाइयं 'ति वर्तमानकालसम्बन्धिनः सावद्ययोगस्य संवरणहेतुपदं 'सव्वं सावज्जं जोगं पच्चरकामि जावजीवाए 'त्ति भविष्यत्कालसंबंधिनः प्रत्याख्यानपदं । ' तस्स भंते पडिकमामी 'ति अतीतकालसंबंधिनः प्रतिक्रमणपदं । तथा 'तिविहं तिविहेणे 'त्यादीनि भङ्गकपदानि । एतानि चानया गाथया प्रायः स्पृष्टानि, तत आह 'सुत्ते 'त्यादि । एवं सूत्रस्पर्शिनियुक्तर्विस्तरार्थों भङ्गजालकथनेन गतः ॥१०५२ ॥ उक्तमेवार्थ स्पष्टयति 'सामा' सामाइअं करेमि, पञ्चकामी पडिक्कमामित्ति । पच्चुप्पन्नमणागयअईअकालाण गहणं तु ॥१०५३॥ सामायिकं करोमि, सावा प्रत्याख्यामि, प्राकृतात्प्रतिक्रमामीति यथाक्रमं प्रत्युत्पन्नाऽनागताऽतीतकालानां ग्रहणं । अथ तस्य भदंत प्रतिक्रमामीति यत्प्राग्व्याख्यातं तत्रोच्यते-यद्यपि प्रतिक्रमामीति क्रियायाः सावद्ययोगः कर्म, कर्मणि च द्वितीया ततस्तस्वस्थाने तमिति स्यात, परमवयवावयविसम्बन्धेत्र पष्ठी, ततोऽयमर्थः-योऽसौ त्रिकालविषयः सावधयोगस्तस्यातीतं सावद्यांशं प्रतिक्रमामि ॥ १०५३ ॥ परः प्राह 'तिवि' Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy