SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ द्रव्यकरणे द्विधा प्रयोगकरणम् ॥ निष्पत्ति, ज्ञेया, किन्तु द्रव्याणामन्योन्यसमाधानं मिश्रीभावकरणं ज्ञेयं । तथा तेषामेव विश्रसाकरण परप्रत्ययात् 'साई' ति सादि स्यात् । कथं इत्याह-योगात् घटादिभिः संयोगात्, कोऽर्थः धर्मादीनामेष स्वभावो यत्ते सर्ववस्तुषु संयुज्यंते, तस्मातेषां परं अन्यं घटादिकं प्रत्ययं आश्रित्य संयोगादिकरणं सादि ज्ञेयं । एवममूर्त्तद्रव्याण्याश्रित्योक्तं । मूर्तान्याश्रित्य पुनस्तस्करणं सादि स्यात् । 'साई' तिशब्दोऽत्रापि सम्बन्ध्यते । तद् द्विधा चक्षुःस्पर्श अचक्षुःस्पर्श च । तत्र चक्षुःस्पर्श चक्षुाचं अभ्रादि, अचक्षुःस्पर्श अचाक्षुषं अण्वादि, आदितो द्वयणुकादि । करणं चेह तत्तद्भावेन परिणमनं ॥१५४॥ एतदेव स्पष्टयति ‘संघा' | संघायभेअतदुभयकरणं इंदाउहाइ पञ्चक्खं । दुअअणुमाईयाणं छउमत्थाईणऽपच्चक्खं ॥ १५५ ॥ ___ संघातः संचटनं, मेदो विचटनं, तदुभयं स्पष्टं, तैः क्रियते इति करणं, इन्द्रायुधादि-इन्द्रचापादि, प्रत्यक्षं चाक्षुष- | | मित्यर्थः । व्यणुकादीनामादितस्तद्विधानंताणुकानां करणं छद्मस्थादीनां छद्मस्थभेदानां अप्रत्यक्षं अचाक्षुषं । आदिशब्दोऽत्र मेदार्थः ॥ १५५॥ उक्तं विश्रसाकरणं । अथ प्रयोगकरणं 'जीव' जीवमजीवे पाओगिअंच, चरमं कुसुंभरागाई । जीवप्पओगकरणं मूले, तह उत्तरगुणे अ ॥१५६॥ ___जीवप्रयोगो जीवव्यापारः, तेन यत् सजीवमजीवं वा तैस्तैः पर्यायनिर्माप्यते तत्प्रायोगिककरणं द्विधा, जीवे जीवविषयं, अजीवेऽजीवविषयं, जीवप्रायोगिकं अजीवप्रायोगिकं चेत्यर्थः । तत्र चरममजीवप्रायोगिक कुसुम्भरागादि, तच्चाल्पवाच्यत्वादादावुक्तं । जीवप्रयोगकरणं द्विधा-'मूले ' इति मूलगुणकरणं मूलप्रयोगकरणापरनाम | मूलं आदिरित्येकाएँ । उत्तरगुणे For Private & Personal Use Only www.jainelibrary.org Jain Education Intel
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy