________________
बावश्यक- नियुक्ति- दीपिका ॥ ॥१६५॥
भवाकर्षस्पर्शनाद्वारम् ॥
सम्मत्तदेसविरई, पलियस्स असंखभागमेत्ताओ। अट्ठ भवा उ चरित्ते, अणंतकालं च सुयसमए॥८५७॥
सम्यक्त्ववतां देशविरतानां चैतत्सामायिकव्यप्रतिपत्तिमाश्रित्य क्षेत्रपल्यासङ्खयभागप्रदेशमात्रा भवाः स्युः। एवं 'अट्ठ' अनन्तकालोऽनन्तभवरूपः श्रुतसमये सामान्ये श्रुतसामायिके, सर्वेषां जघन्यतस्त्वेको भवः ॥८५७॥ भवद्वा० २३ । अथाकर्षाः- तिण्ह सहस्सपुहुत्तं, सयपुहुत्तं च होइ विरईए। एगभवे आगरिसा, एवतिया होति नायव्वा ॥८५८॥ __ प्रथमतया ग्रहण मुक्तस्य वा आकर्षणं ग्रहणं आकर्षस्त्रयाणां सम्यक्त्वादीनां एकभवे सहस्रपृथक्त्वं आकर्षाणां भवति । | 'विरईए' सर्वविरतेः शतपृथक्त्वं एतावन्त आकर्षा ज्ञातव्या भवन्ति । सर्वेषां जघन्यस्त्वेक आकर्षः ।।८५८ ॥ अतः 'तिण्ह' तिण्ह सहस्समसंखा, सहसपुहत्तं च होइ विरईए।णाणभवे आगरिसा, एवइया होंति णायवा ॥८५९॥ ___ नानाभवमीलिताः ।। ८५९ ॥ आकर्षद्वा० २४ । अथ स्पर्शना, 'सम्म' | सम्मत्तचरणसहिया, सवं लोगं फुसे गिरवसेसं। सत्त य चोदसभागे, पंच य सुयदेसविरईए ॥८६०॥
सम्यक्त्वचरणसहिता उत्कर्षतः केवलिसमुद्घातक्षणे सर्व लोकं स्पृशन्ति निरवशेषमिति प्रतिनमःप्रदेशं स्वात्मप्रदेशैरिति, जघन्येन तु लोकासङ्खथं भागं । 'सुय० 'त्ति, सम्यक्त्वश्रुतयुक्ताः सप्तचतुर्दशभागान् स्पृशन्त्यऽनुत्तरेष्विलिकागत्या उत्पत्तेः, षष्ठभुव्युत्पत्तौ पश्च, देशविरत्या युक्ताः पञ्चैव अच्युतस्वर्गोत्पादात् , अधस्तु ते न यान्त्येव ॥ ८६० ।। क्षेत्रस्पर्शनामुक्त्वा भावस्पर्शनामाह 'सच'
॥१६५॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org