SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ चारित्रोप सम्पद्वारम् ।। स्तीत्यादिनापि ।। ७१९ ॥ 'इत्त' इत्तरियाइविभासा, वेयावच्चंमि तहे व खमणे य। अविगिट्ठविगिटुंमि, य गणिणो गच्छस्स पुच्छाए ॥ वैयावृत्त्यार्थ उपसम्पदि इत्वरादिविभाषा कार्या। कोऽर्थः वैयावृत्त्योपसम्पद्वाहको द्विधा इत्वरो यावत्कथिकश्च । तत्रायं विधिः-यद्यग्रे वैयावृत्त्यकरो नास्ति तदेष्यते, चेदस्ति स यावत्कथिको लब्धिमांश्च तदा नव्यो नेष्यते । उपाध्यायादिभ्यो वा देयोऽथ नव्यो यावत्कथिको लब्धिमांश्च, तदा स स्थाप्यः, वास्तव्य उपाध्यायादीनां, अथ द्वावपि लब्धियुक्तौ तदा वास्तव्यः स्थाप्योऽन्य उपाध्यायादेः, अथ स आगन्तुकः नेच्छेत्तदा स्थाप्यो वास्तव्य उपाध्यायादेः, एवं वास्तव्यागन्तुकयोरित्वर उपा. ध्यायादेः यावत्कथिकः स्थाप्यः द्वयोरित्वरयोरेकः प्रतीक्ष्यतेऽन्यः कार्यतेऽन्यस्मै वा दीयते । नेच्छेत्तदा विवेकः कार्यः यद्वा यावत्कथिको वास्तव्यो विश्राम्यते । आगन्तुक इत्वरः कार्यते वृत्त्य, इति विभाषा कार्या । तथैव क्षपणार्थ उपसम्पत्तरि इत्वरे यावत्कथिके च, अविकृष्टे विकृष्टे च गणिना गणधरेण गच्छस्य पृच्छया विभाषा कार्या, तत्र क्षपक इत्वरश्चतुर्थषष्ठकर्ताऽविकृष्टः, स चेत् पारणे ग्लायते तदा नेष्यते भण्यते च त्वया नैवं तपः कार्य किंतु सूत्रेऽर्थे चादरं कुरु, विकृष्टस्तु योऽष्टमादिकर्ता सोऽप्येवं वाच्यः, यावत्कथिकश्च योऽन्ते अनशनग्राही, तौ गच्छं पृष्ट्वा स्थाप्यो । साध्वपृच्छया विकृष्टतपोऽनशनिनो रक्षणे दोषः, यदा विकृष्टतपा आत्मना प्रतिलेखनादि कुर्यात् तवानाहं (१) यदि साधवो ब्रूयुः अग्रे क्षपकोऽस्ति, ततो नवः साधुः प्रतीक्ष्यतेऽग्रेतनपारणं यावत् । द्वयोःयावृत्त्यं साधवः कुर्युः तदा स्थाप्यः, साधुप्रपन्ने विस्मृते तदुद्वर्तनादिशुश्रूषाविधौ च यतयः प्रेर्याः चेन्मासादा विकृष्टतपस्वी पारणे न ग्लायति तदाहः मासादितपोह एव ।। ७२० ॥' उव' Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy