________________
Jain Education Inte
भवनदेवीभ्योऽनु व्यन्तरज्योतिर्देव्य उक्ताः ॥ ५५९ ॥ विदिद्वयवाच्यं सामान्येनोक्त्वा विशेषेणाह 'केव ' केवल तिउण जिणं, तित्थपणामं च मग्गओ तस्स । मणमादीवि णमंता, वयांत सट्टाणसद्वाणं ॥ ५६०
4
त्रिगुणां त्रिःप्रदक्षिणय्य अर्हन्तं 'नमो तिथ्थस्से 'ति तीर्थप्रणामं च कृत्वा तीर्थस्य गणिनां च मार्गतः पृष्ठतो निषीदन्ति । मण ' मनोज्ञान्यादयोऽपि नमन्तः सन्तः स्वस्थाने २ व्रजन्ति । कोऽर्थः । केवलिभ्योऽनुक्रमान्मनोज्ञान्यवधिज्ञानिचतुर्दशादिपूर्विणो लब्धिमन्तश्च प्रभुं प्रदक्षिणय्य नत्वा 'नमो तित्थस्स नमो केवलीणं ' इत्युक्त्वा । एवमन्ये यतयो 'नमो तिथ्धस्स, नमो अतिसेसीयाणं ' इत्युक्त्वा सातिशयर्षीन्नत्वा निषीदन्ति । वैमानिकदेव्यस्तु 'नमो तित्थस्स नमो साहूणं ' इत्युक्त्वा तिष्ठन्ति न तु निषीदन्ति । श्रमण्योऽपि ( तीर्थंकरसाधूनमिवन्द्य वैमानिकदेवीपृष्ठतः तिष्ठन्ति न निषीदन्ति ) । भवनज्योति - र्व्यन्तरदेव्योऽर्हदादीन्नत्वा नैरुते पश्चात्तिष्ठन्ति । अत्रापि गाथानुलोम्या देवीनां व्यत्ययेन नामानि || ५६० || ' भव' वणवई जोइसिया, बोद्धव्वा वाणमंतरसुरा य । वेमाणिया य मणुया, पयाहिणं जं च निस्साए ॥ ५६१
भवनेशाद्याः पश्चिमेन प्रविश्यार्हदादीन्नत्वा वायव्ये, वैमानिका मनुजा नरा नार्यश्वोत्तरेण प्रविश्यार्हतः प्रदक्षिणां कृत्वाऽर्ह - दादीन्नत्वेशाने पश्चात्तिष्ठन्ति । 'जं च' यः परिच्छेदो यं निश्रां कृत्वाऽऽगात् स तत्पार्श्वे तिष्ठेत् ॥ ५६१ ॥ अत्र भाष्यं ' संज ' संजयवेमाणित्थी संजय (इ) पुव्वेण पविसिउं वीरं । काउं पयाहिणं, पुव्वक्खिणे ठंति दिसिभागे॥ ११६ ॥ संयता वैमानिकस्त्रियः संयत्यः पूर्वेण पूर्वद्वारेण प्रविश्य वीरं प्रदक्षिणां कृत्वां पूर्वदक्षिणे आग्नेयकोणे तिष्ठन्ति । ११६ । 'जोड़'
For Private & Personal Use Only
श्रीसमवस्ररणाधिकारः ॥
www.jainelibrary.org