________________
वडउ वायगवसो, जसवंसो अजनागहत्थीणं । वागरणकरणभांगय--कम्मपयडीपहाणाणं ॥३४॥
पूर्वगतसूत्रं अन्यच्च वाचयन्ति इति वाचकाः तेषां नागहस्तिनां नन्दिशिष्याणां वंशो वर्द्धतां किं भृतः यशसो वंश इव यशोवंशः, अनुक्रमेण वाचकानां यशस्वित्वात् , व्याकरणं प्रसिद्धम् करणं पिण्डविशोध्यादिसप्ततिभेदं, भंगिय'त्ति भङ्गैः निर्वृत्तं भाङ्गिकं भङ्गबहुलं श्रुतं, कर्मप्रकृतिः नामा ग्रन्थः तैः प्रधानानां ॥ ३४ ॥ 'जच्च'जच्चंजणधाउसमप्पहाण, मुद्दियकुवलयनिहाणं । वडउ वायगवंसो, रेवइनकत्तनामाणं ॥ ३५ ॥ ___ जात्यांजनधातुः जात्यं अञ्जनाख्यं रत्नं तत्समप्रभाणां, मा भूद् अत्यंतकालिम्नि प्रत्यय इत्याह-मृद्विकाकुवलयनिभानां, पक्वद्राक्षया नीलोत्पलेन च तुल्यानां, रेवतिनक्षत्रनाम्नां वाचकवंशो वर्द्धतां ॥ ३५ ॥ तत् शिष्यान् 'अय'अयलपुरा णिक्खते, कालियसुयआणुओगिए धीरे । बंभद्दीवगसीहे, वायगपयमुत्तमं पत्ते ॥ ३६ ॥
ब्रह्मद्वीपशाखोपलक्षितान्सिंहनामकान् अचलपुरे निःक्रान्तान् दीक्षितान् कालग्रहणेन पच्यते यत्तत्कालिकश्रुतं तस्याऽनुयोगे नियुक्ताः कालिकश्रुतानुयोगिकाः तान् उत्तमं वाचकपदं प्राप्तान् वन्दे ॥ ३६॥ तत् शिष्यान् ‘जेसि'
जेसि इमो अणुओगो, पयरइ अजावि अड्डभरहम्मि । बहुनयरनिग्गयजसे, ते वंदे खंदिलायरिए ॥ ३७॥
For Private & Personal Use Only
www.janelibrary.org
Jan Education inte