________________
पंचसं
टीका
॥ ९७६ ॥
कानावनिमित्तः 'एमेव वाणसन्ना विनेयवत्ति ' एवमेव रसकारणतः स्थानसंज्ञापि वेदितव्या मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरण पुरुषवेदसंज्वलनचतुष्टयांतरायपंचकरूपाः सप्तदशप्रकृतय एकद्वित्रिचतुःस्थानकसंज्ञाः, शेषास्तु द्वित्रिचतुःस्थानकसंज्ञा इति, या स्थानसंज्ञा प्रकृतीनां प्रागभिहिता, सापि रसकारणादेवावगंतव्या इत्यर्थः तथाहि-यासां मतिज्ञानावरणादीनां प्रकृतीनामेकद्वित्रिचतुःस्थानकरससंभवः, ता एकत्रि तुःस्थानकसंज्ञाः, यासां तु शेषाणां द्वित्रिचतुःस्थानकरससंभवः, ता द्वित्रिचतुःस्थानकसंज्ञाः. तत्र सम्यक्त्वसम्यग्मिथ्यात्वयोः स्थानसंज्ञा प्राकू न प्रतिपादिता, ततस्तयोः स्थानसंज्ञाप्रतिपादनार्थं कासांचित्प्रकृतीनां संक्रममधिकृत्य विशेषोपदर्शनार्थं चाह
॥ मूलम् ||सवघा दुठालो | मीसायवमणुयतिरिया || इगडुगलो सम्मं मि । तदियरोन्नासु जह देा ॥ ५३ ॥ व्याख्या - इह संक्रमे चिंत्यमाने सम्यग्मिथ्यात्वातपमनुष्य तिर्यगायुषां रसः सर्वघाती दिस्थानकश्च वेदितव्यः, न शेषः तत्र सम्यग्मिथ्यात्वस्य रसः सर्वोऽपि सर्वघाती हिस्थानकश्च विद्यते, न शेषः इति शेषसंक्रमप्रतिषेधः श्रातपमनु
Jain Education International
For Private & Personal Use Only
भाग ३
॥ ९७६ ॥
www.jainelibrary.org