________________
पंचसं
टीका
॥ ३०२ ॥
अशुनाश्च एताश्च पंचापि सप्रतिपक्षा अध्रुवबंध्यादिप्रकृतिसहिताः ततो नेदसंख्यया परिजायमाना दशविधा जवंति. 'पंच य' इत्यत्र च शब्दात् ध्रुवसत्ताका अपि सप्रतिपक्षा वे दितव्याः तत्र ध्रुव आबंधकालव्यवच्छेदादव सर्वकालावस्थायी; बंध नक्तस्वरूपः, ततो विशेषणसमासः, स ध्रुवबंधो विद्यते यासां ता ध्रुवबंधिन्यः तद्विपरीता अध्रुवबंधिन्यः तथा ध्रुव उदयकालव्यववेदादर्वाकू सर्वकालाऽवस्थायी नदयो विपाकानुजवनलक्षणो यासां ता ध्रुवोदयाः तद्विपरीता अध्रुवोदयाः तथा सर्वमात्मघात्यं ज्ञानादिरूपं गुणं घातयंतीत्येवंशीलाः सर्वघातिन्यः तत्प्रतिपक्षभूता देशघातिन्यः, सर्वघातिप्रतिज्ञागा वा तत्रात्मघात्यस्य ज्ञा नादेर्गुणस्य देशं घातयंतीत्येवंशीला देशघातिन्यः, तथा सर्वघातिप्रकृतिसंपर्कतः सर्वधातिप्रकृतीनां प्रतिजागः सादृश्यं जवति यासां ताः सर्वघातिप्रतिज्ञागाः किमुक्तं जवति ? स्वरूपेघातिन्योऽपि यः सर्वघाती संपर्कतः स्वविपाकमती वदारुणमादर्शयंति, ताः सर्वधातिनिः सह दारुणविपाकतया सादृश्यं जजंते, इति सर्वघातिप्रतिज्ञागाः तथा यासां प्रकृतीनां बंधनदयो वा अन्यया प्रकृत्या बध्यमानया वेद्यमानया वा निरुध्यते, प्रकाशेनेव तमः,
तास्त.
Jain Education International
For Private & Personal Use Only
नाग १
॥ ३०२ ॥
www.jainelibrary.org