________________
अञ्जन प्र.कल्प
॥२०॥
| कृत्वा पञ्चवपूंषि विष्टपपतिः, संधारणं हस्तयो-इछत्रस्योद्वहनं च चामरयुग-प्रोद्भासनाचालनम् । वज्रेणापि धृतेन नर्तनविधि, निर्वाण दातुः पुरो, रूपैः पञ्चभिरेवमुत्सुकमनाः, प्राचीनबर्हियधात् ॥ ७॥ (शार्दूल)
सामानिकारक्ष-रेवं परिवारितः सुराधीशः। विभ्रत त्रिभुवननाथं, प्राप सुरादि सुरगणाढ्यम् ।। ८ । (आर्या)। तन्द्रास्त्रिदशाप्सरःपरिवृता विश्वेशितुः संमुखं, मझ्वागत्य नमस्कृति व्यधुरलं, स्वालङ्कृतिभ्राजिताः। आनन्दान्न नृतस्तथा सुरगिरि स्त्रट्यद्भिराभास्वरैः, शृङ्गैः काञ्चनदानकर्मनिरतो, भाति स्म भक्त्या यथा ॥ ९॥ (शार्दूल) अतिपाण्डुकम्बलाया, महाशिलायाः शशाङ्कधालायाः । पृष्ठे शशिमणिरचितं, पीठमधुर्देवगणवृषभाः॥१०॥ (आर्या) तत्राधायोत्सङ्गे, ईशानसुरेश्वरो जिनाधीशम् । पद्मासनोपविष्टो, निबिडां भक्तिं दधौ मनसि ॥ ११ ॥ (आर्या) इन्द्रादिष्टास्तत,आभियोगिकाः कलशगणमथानिन्युः । वेदर सखर्वसुसंख्यं, मणिरजतसुवर्णमृद्रचितम् ॥ १२ ॥ (आर्या) कुम्भाच ते योजनमात्रवक्त्रा, आयाम औन्नत्यमथैषु चैवम् ।।
दशाष्टवाहत्करयोजनानि, द्विश्येकधातुप्रतिपङ्गगर्भाः ॥ १३ ॥ (उपेन्द्रवज्रा) नीर: सर्वसरितडागजलधि-प्रख्यान्यनीराशयाऽऽ-नीतैः सुन्दरगन्धगर्भिततरैः स्वच्छैरलं शीतलैः ।। भृत्यैर्देवपतेर्मणीमयमहा-पीठस्थिताः पूरिताः; कुम्भास्ते कुसुमस्रनां समुदयैः कण्ठेषु संभाविताः ॥ १४ ॥ (शार्दूल) पूर्वमच्युत-पतिर्जिनेशितुः, स्नातकर्म विधिवद् व्यधान्महत् ।
तैर्महाकलशवारिभिधनैः, प्रोल्लसन्मलयगन्धधारिभिः ॥१५॥ (रथोद्धता ५-६)
॥२०॥
Jain Education Intel
For Private & Personal use only
N
ainelibrary.org