________________
अञ्जन प्र.कल्प
॥१८॥
४-वज्राइकुशा:-निस्त्रिंशवत्रफलकोत्तमकुन्तयुक्त-हस्ता सुतप्तविलसत्कलधौतकान्तिः ।
उन्मत्तदन्तिगमना भुवनस्य विघ्नं वज्राङ्कुशा हरतु वज्रसमानशक्तिः॥४॥ (वसन्त.) ॐ लं लं लं श्रीवज्राङ्कुशायै विद्यादेव्यै स्वाहा । ५-अप्रतिचक्रा:-गरुत्मत्पृष्ठ आसीना, कार्तस्वरसमच्छविः । भूयादप्रतिचक्रा नः, सिद्धये चक्रधारिणी ॥५॥ (अनु.)
ॐ श्रीअप्रतिचक्रायै विद्यादेव्यै स्वाहा । ६-पुरुषदत्ताः-खङ्गस्फराऽङ्कितकरद्वयभासमानाः मेघाभसैरिभपटुस्थितिभासमाना ।
जात्यार्जुनप्रभतनुः पुरुषाग्रदत्ताः भद्रं प्रयच्छतु सतां पुरुषाग्रदत्ता ॥६॥ (वसन्त.) ॐ हं सं श्रीपुरुषदत्तायै विद्यादेव्यै स्वाहा ॥ ७-काली:-शरदम्बुधरप्रमुक्तचश्चद्-गगनतलाभतनुश्रुतिर्दयाढया ।
विकचकमलवाहना गदाभृत् , कुशलमलङ्कुरुतात् सदैव काली ॥७॥ (औपच्छन्दसिक) ॐ ह्रीँ श्रीकालिकायै विद्यादेव्यै स्वाहा । ८-महाकाली:-नरवाहना शशधरोपलोज्ज्वला; रुचिराक्षसूत्रफलविस्फुरत्करा ।
शुभघण्टिका पविवरेण्यधारिणी; भुवि कालिका शुभकरा महापरा ॥८॥ (मजुभाषिणी) ॐ है घे श्रीमहाकाल्यै विद्यादेव्यै स्वाहा ॥
GEOROSCORECORRECRORG
॥१८३॥
Jain Educatio
n
al
For Private & Personal Use Only
Uww.jainelibrary.org