________________
अञ्जन
प्र. कल्प
।।१५५।।
Jain Education International
ततो गन्धनानिकास्नानम्
गन्धाङ्गनानिकया, सन्मृष्टं तदुदकस्य धाराभिः । स्नपयामि जैनविम्बं कमवोच्छित्तये शिवदम् ॥ १२॥ ( ( आर्या ) गन्धा एव शुक्लवर्णा वासा उच्यन्ते, त एव मनाक् कृष्णा गन्धा इति । ततो वासस्नानम्
Error करैः स्पृहणीयैर्मन्त्र संस्कृतैर्जेनम् । स्नपयामि सुगतिहेतो - विम्वमधिवासितं वासैः ॥१३॥ (,, )
ततः चन्दनस्नानम्
शीतलसरससुगन्धि-मनोमतश्चन्दनद्रुमसमुत्थः । चन्दनकल्कः सजलो, मन्त्रयुतः पततु जिनबिम्बे ॥ १४ ॥ (,, )
ततः कुङ्कुमस्नानम्
कश्मीरजसुविलिप्तं विम्बं तन्नीरधारयामिनाम् । सन्मन्त्रयुक्तया शुचि, जैनं स्नपयामि सिद्धयर्थम् || १५ | (आर्या) तत आदर्श दर्शनं ततस्तीर्थोदकस्नानम्
जलधिनीकुण्डेषु यानि तीर्थोदकानि शुद्धानि । तैर्मन्त्रसंस्कृतैरिह, विम्बं स्नपयामि सिद्धयर्थम् ॥ १६ ॥ (,, ) ततः कर्पूरस्नानं
शशिकरतुषारधरला, उज्जलगन्धा सुतीर्थजल मिश्रा । कर्पूरोदकधारा, सुमन्त्रपूता पततु बिम्बे ॥ १७॥ (,, ) ततः कस्तूरिकास्नानम् -
मन्त्रपवित्रितपसा प्रकृष्टकस्तूरिका सुगन्धयुजा । विहितप्रणताभ्युदयं, विम्बं स्नपयामि जैनेन्द्रम् ||
For Private & Personal Use Only
।। १५५ ।।
www.jainelibrary.org