SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 11७६।। धनुःपरशुयुतवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां वरदत्ता देवीं गौरवणां भद्रासनारूढां चतुभुजां वरदाक्षसूत्रयुतदक्षिणकरां बीजपूरककुम्भ(मातुलिङ्गशूल)युतवामहस्तां चेति ।। २० ॥ तथेकविंशतितम नमिजिनं कनकवर्ण नीलोत्पललाञ्छनं अश्विनीजातं मेषराशिं चेति । तत्तीर्थोत्पन्नं भृकुटियक्षं चतमुखं त्रिनेत्रं हेमवर्ण वृषभवाहनं अष्टभुजं मातुलिङ्गशक्तिमुद्गराभययुक्तदक्षिणपाणिं नकुलपरशुवत्राक्षभूत्रधामपाणि चेति । नर्गन्धारीदेवों श्वेतां हंसवाहनां चतुभुजा वरदखड़गयुक्तदक्षिणभुजद्वयां बीजपूरकुम्भयुतवामपाणिद्वयां चेति ।। २१ ॥ तथा द्वाविंशतितम नेमिनाथं कृष्णवर्ण शङ्कलाञ्छनं चित्राजातं कन्याराशिं चेति । तत्तीर्थोत्पन्नं गोमेधयक्षं त्रिमुखं श्यामवर्ण पुरुषवाहनं पट्भुजं मातुलिङ्गपरशुचक्रान्वितदक्षिणपाणिं नकुलकशूलशक्तियुतवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां कूष्माण्डी देवी कनकवर्णा सिंहवाहनां चतुर्भुजा मातुलिङ्गपाशयुक्तदक्षिणकरां पुत्रानुशन्वितवामकरी चेति ॥ २२॥ तथा त्रयोविंशतितमं पार्श्वनाथं प्रियङ्गुवर्णं फणिलाञ्छनं विशाखाजातं तुलाराशिं चेति । तत्तीर्थोत्पन्नं पार्श्वयक्षं गजमुखमुरगफणामण्डितशिरसं श्यामवर्ण कूर्मवाहनं चतुर्भुज वीजपूरकोरगयुतदक्षिणपाणिं नकुलकाहियुतबामपाणि चेति । तस्मिन्नेव तीर्थे समुत्पन्नां पद्मावती देवी कनकवर्ण कुकु (क)टवाहनां चतुर्भुजां पद्मपाशान्वितदक्षिणकरां फलानुशाधिष्ठितवामकरां चेति ।। २३ ।। ॥७३॥ Jain Education in a nal For Private & Personal Use Only rw.jainelibrary.org IT
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy