SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ निर्वाणकलिका. K अहंदादीनां वर्णादिक्रमः ॥७८॥ ॥७८॥ निर्वाणां देवी गौरवर्णा पद्मासनां चतुर्भुजा पुस्तकोत्पलयुक्तदक्षिणकरां कमण्डलुकमलयुतवामहस्तां चेति ॥१६॥ तथा सप्तदशं कुन्थुनाथं कनकवणं छागलाञ्छनं कृत्तिकाजातं वृषभराशि चेति । तत्तीर्थोत्पन्न गन्धर्षयक्षं श्यामवणं हंसवाहनं चतुर्भुजं वरदपाशान्वितदक्षिणभुजं मातुलिङ्गाङ्कुशाधिष्ठितवामभुजं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां वला देवी गौरवर्णा मयूरवाहनां चतुर्भजा वीजपूरकशूलान्वितदक्षिणभुजा भुषुण्ढिपद्मान्वितवामभुजां चेति ॥१७॥ तथा अष्टादशमं अरनाथं हेमा नन्दा(धा)वर्तलाञ्छनं रेवतीनक्षत्रजातं मीनराशिं चेति । तत्तीर्थोत्पन्नं यक्षेन्द्रयक्ष षण्मुखं त्रिनेत्रं श्यामवर्ण शम्बर(शङ्ख)वाहनं द्वादशभुजं मातुलिङ्गवाणखड्गमुद्गरपाशाभययुक्तदक्षिणपाणिं नकुलधनुश्चफलकशूलाकुशाक्षसूत्रयुक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्ना धारणी देवीं कृष्णवर्णा चतभुजा पद्मासना मातुलिङ्गोत्पलान्वितदक्षिणभुजां पाशाक्षसूत्रान्वितवामकरां चेति ॥१८॥ तथैकोनविंशतितमं मल्लिनाथं प्रियगुवर्ण कलशलाञ्छनं अश्विनीनक्षत्रजातं मेषराशि चेति । तत्तीर्थोत्पन्न कुबेरयक्षं चतुमुखमिन्द्रायुधवर्णं गरुडवदनं गजवाहनं अष्टभुजं वरदपाश(परशु)चापशूलाभययुक्तदक्षिणपाणिं वीजपूरकशक्तिमुद्गराक्षमत्रयुक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां वैरोटयां देवीं कृष्णवर्णा पद्मासनां चतुभुजां वरदाक्षसूत्रयुक्तदक्षिणकरां मातुलिङ्गशक्तियुक्तवामहस्तां चेति ॥ १६ ॥ तथा विंशतितम मुनिसुव्रतं कृष्णवर्ण कूर्मलाञ्छनं श्रवणजातं मकरराशिं चेति । तत्तीत्पिन्नं वरुणयक्षं चतुमुखं त्रिनेत्रं धवलवर्ण वृषभवाहनं जटामुकुटमण्डितं अष्टभुजं मातुलिङ्गगदावाणशक्तियुतदक्षिणपाणिं नकुलकपद्म Jain Education in o ral For Private & Personal Use Only Y w.jainelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy